Loading...
ऋग्वेद मण्डल - 10 के सूक्त 111 के मन्त्र
1 2 3 4 5 6 7 8 9 10
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 111/ मन्त्र 1
    ऋषि: - अष्ट्रादंष्ट्रो वैरूपः देवता - इन्द्र: छन्दः - त्रिष्टुप् स्वरः - धैवतः

    मनी॑षिण॒: प्र भ॑रध्वं मनी॒षां यथा॑यथा म॒तय॒: सन्ति॑ नृ॒णाम् । इन्द्रं॑ स॒त्यैरेर॑यामा कृ॒तेभि॒: स हि वी॒रो गि॑र्वण॒स्युर्विदा॑नः ॥

    स्वर सहित पद पाठ

    मनी॑षिणः । प्र । भ॒र॒ध्व॒म् । म॒नी॒षाम् । यथा॑ऽयथा । म॒तयः॑ । सन्ति॑ । नृ॒णाम् । इन्द्र॑म् । स॒त्यैः । आ । ई॒र॒या॒म॒ । कृ॒तेभिः॑ । सः । हि । वी॒रः । गि॒र्व॒ण॒स्युः । विदा॑नः ॥


    स्वर रहित मन्त्र

    मनीषिण: प्र भरध्वं मनीषां यथायथा मतय: सन्ति नृणाम् । इन्द्रं सत्यैरेरयामा कृतेभि: स हि वीरो गिर्वणस्युर्विदानः ॥

    स्वर रहित पद पाठ

    मनीषिणः । प्र । भरध्वम् । मनीषाम् । यथाऽयथा । मतयः । सन्ति । नृणाम् । इन्द्रम् । सत्यैः । आ । ईरयाम । कृतेभिः । सः । हि । वीरः । गिर्वणस्युः । विदानः ॥ १०.१११.१

    ऋग्वेद - मण्डल » 10; सूक्त » 111; मन्त्र » 1
    अष्टक » 8; अध्याय » 6; वर्ग » 10; मन्त्र » 1
    Acknowledgment

    पदार्थ -
    (मनीषिणः) हे मेधावी योगी स्तोताजनों ! तुम (मनीषाम्) स्तुति को (प्र भरध्वम्) ऐश्वर्यवान् परमात्मा के लिये प्रचरित करो-समर्पित करो (नृणाम्) तुम मनुष्यों की (यथा यथा) जैसी-जैसी (मतयः) कामनाएँ (सन्ति) हैं-हों (सत्यैः कृतेभिः) हम भी सत्यकर्मों से मन वाणी शरीर के द्वारा सद्विचार सत्यभाषण सदाचरणों से (इन्द्रम्-आ-ईरयाम) परमात्मा को अपने अन्दर लावें, यतः (सः-वीरः-हि) वह कमनीय वस्तुओं का दाता ही (गिर्वणस्युः) स्तुति करनेवाले को चाहता हुआ (विदानः) जानता हुआ सदा वर्त्तमान है ॥१॥

    भावार्थ - मेधावी योगी स्तुति करनेवाले जनों की जो-जो कामनाएँ होती हैं, परमात्मा पूरी करता है, सद्विचारों, सत्यभाषणों व सदाचरणों से परमात्मा अपनाया हुआ मनुष्यों के हृदयों में वर्त्तमान रहता है ॥१॥


    Bhashya Acknowledgment

    पदार्थः -
    (मनीषिणः) हे मेधाविनो योगिनः स्तोतारः ! “मनीषी मेधाविनाम” [निघ. ३।१५] मनीषिणः-मनसः ईषिणो योगिनः [यजु. १७।२० दयानन्दः] यूयं (मनीषां प्र भरध्वम्) स्तुतिम् “मनीषया स्तुत्या” [निरु. २।२५] ऐश्वर्यवने परमात्मने समर्पयत (नृणां यथायथा मतयः सन्ति) युष्माकं मनुष्याणां यथा यथा कामाः सन्ति पूरयिष्यतीत्याशयः (सत्यैः कृतेभिः-इन्द्रम्-आ-ईरयाम) वयमपि सत्यैः, कर्मभिः-मनसा वाचा, शरीरेण च कृतैः सद्विचारैः सत्यभाषणैः सदाचरणैः-परमात्मानं स्वान्तरे-आनयाम यतः (सः-हि वीरः-गिर्वणस्युः-विदानः) स हि परमात्मा कमनीयानां वस्तूनां दाता तथा ये गीर्भिः स्तुतिभिर्वनन्ति तान् गीर्वणसः कामयमानः ‘गी गिः, ह्रस्वत्वं छान्दसम्’ ‘सुप आत्मनः क्यच्’ पुनः ‘क्यचि च’ [अष्टा० ३।२।१७०] उः प्रत्ययः सर्वेषामपीष्टान् जानन् वर्त्तते ॥१॥


    Bhashya Acknowledgment

    Meaning -
    O men of thought and wisdom, judgement and reflection, bear your thoughts and offer your songs and prayers to Indra according to whatever are the thoughts and faith of the people. With our sincere thoughts, words and actions, we praise and pray to Indra. He alone is the lord omnipotent and generous, he alone knows all that is, and he knows and accepts the thoughtful celebrant.


    Bhashya Acknowledgment

    भावार्थ - मेधावी, योगी, स्तुती करणाऱ्या जनांच्या ज्या ज्या कामना असतात, त्या परमात्मा पूर्ण करतो. सद्विचार, सत्यभाषण व सदाचरणाने परमात्म्याला अंगीकारणाऱ्या माणसांच्या हृदयात तो राहतो. ॥१॥


    Bhashya Acknowledgment
    Top