Loading...
ऋग्वेद मण्डल - 10 के सूक्त 56 के मन्त्र
1 2 3 4 5 6 7
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 56/ मन्त्र 6
    ऋषि: - वृहदुक्थो वामदेव्यः देवता - विश्वेदेवा: छन्दः - भुरिगार्चीजगती स्वरः - निषादः

    द्विधा॑ सू॒नवोऽसु॑रं स्व॒र्विद॒मास्था॑पयन्त तृ॒तीये॑न॒ कर्म॑णा । स्वां प्र॒जां पि॒तर॒: पित्र्यं॒ सह॒ आव॑रेष्वदधु॒स्तन्तु॒मात॑तम् ॥

    स्वर सहित पद पाठ

    द्विधा॑ । सू॒नवः॑ । असु॑रम् । स्वः॒ऽविद॑म् । आ । अ॒स्था॒प॒य॒न्त॒ । तृ॒तीये॑न । कर्म॑णा । स्वाम् । प्र॒ऽजाम् । पि॒तरः॑ । पित्र्य॑म् । सहः॑ । आ । अव॑रेषु । अ॒द॒धुः॒ । तन्तु॑म् । आऽत॑तम् ॥


    स्वर रहित मन्त्र

    द्विधा सूनवोऽसुरं स्वर्विदमास्थापयन्त तृतीयेन कर्मणा । स्वां प्रजां पितर: पित्र्यं सह आवरेष्वदधुस्तन्तुमाततम् ॥

    स्वर रहित पद पाठ

    द्विधा । सूनवः । असुरम् । स्वःऽविदम् । आ । अस्थापयन्त । तृतीयेन । कर्मणा । स्वाम् । प्रऽजाम् । पितरः । पित्र्यम् । सहः । आ । अवरेषु । अदधुः । तन्तुम् । आऽततम् ॥ १०.५६.६

    ऋग्वेद - मण्डल » 10; सूक्त » 56; मन्त्र » 6
    अष्टक » 8; अध्याय » 1; वर्ग » 18; मन्त्र » 6
    Acknowledgment

    पदार्थ -
    (सूनवः पितरः) सन्तान-उत्पादक पितृभूत प्राप्त गृहस्थ (पित्र्यम्-असुरं सहः स्वर्विदं द्विधा-आ-अस्थापयन्त) पितृगण में होनेवाले-प्राणों में रमण करनेवाले बल वीर्य-पुत्रपुत्रियों की उत्पत्ति में निमित्तभूत, दो प्रकार का गृहस्थसुख प्राप्त करानेवाले को पत्नी में आस्थापित करते हैं (तृतीयेन कर्मणा) प्रथम कर्म योगाभ्यास, दूसरा कर्म है त्याग और तृतीय गृहकर्म-गृहस्थ कर्म है, उस गृहस्थकर्म से ऋतुधर्म से (स्वां प्रजाम्) अपनी सन्तति प्राप्त करने को (अवरेषु-आततं तन्तुम्-आ-अदधुः) आगामी पुत्रों में फैलाये हुए वंशतन्तु को भलीभाँति धारण करते हैं ॥६॥

    भावार्थ - गृहस्थ जन उत्तम सन्तान की उत्पत्ति के लिए संयमपूर्वक सुरक्षित जीवनतत्त्व गर्भाधान द्वारा ऋतु अनुसार योग्य पत्नी में संस्थापित करके संसारिक सुख को प्राप्त करें। पुनः त्यग और योगाभ्यास द्वारा अध्यात्मसुख भी प्राप्त करें ॥६॥


    Bhashya Acknowledgment

    पदार्थः -
    (सूनवः-पितरः) प्राणिगर्भसंस्थापकाः “सूनवः प्राणिगर्भ-संस्थापकाः-प्राणिगर्भान् विमोचयन्ति ते” [ऋ० १।३७।१ दयानन्दः] पितृपदप्राप्ता गृहस्थाः [पित्र्यम्-असुरं सहः स्वर्विदं द्विधा-आ-अस्थापयन्त) पितृगणे भवं प्राणेषु रममाणं बलं वीर्यं पुत्रदुहितृजनननिमित्तं द्विप्रकारकं गृहस्थसुखप्रापकं जनन्यामास्थापयन्ति-गर्भाधानं कुर्वन्ति (तृतीयेन कर्मणा) प्रथमं कर्म योगाभ्यासः, द्वितीयं कर्म त्यागः, तृतीयं गृह्यकर्म-गार्हस्थ्यकर्म, ते गार्हस्थ्यकर्मणा-ऋतुधर्मेण (स्वां प्रजाम्) स्वकीयां सन्ततिं प्राप्तुमित्यर्थः (अवरेषु-आततं तन्तुम्-आ-अदधुः) आगामिषु पुत्रेषु आतानितं वंशतन्तुं समन्ताद् धारयन्ति ॥६॥


    Bhashya Acknowledgment

    Meaning -
    Children of divinity, creative and procreative souls, by their third, familial, karma, vesting the vital and spiritual life principle further along with the procreative vitality, establish their own progeny in the next generation which is the extension of the thread of life in natural piety.


    Bhashya Acknowledgment

    भावार्थ - गृहस्थांनी उत्तम संतानांसाठी संयमपूर्वक सुरक्षित जीवनतत्त्व गर्भाधानाद्वारे ऋतुनुसार योग्य पत्नीत संस्थापित करून सांसारिक सुख प्राप्त करावे. त्यानंतर त्याग व योगाभ्यासाद्वारे अध्यात्मसुख प्राप्त करावे. ॥६॥


    Bhashya Acknowledgment
    Top