Loading...
अथर्ववेद के काण्ड - 11 के सूक्त 2 के मन्त्र
मन्त्र चुनें
  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड {"suktas":143,"mantras":958,"kand_no":20}/ सूक्त 2/ मन्त्र 25
    सूक्त - अथर्वा देवता - रुद्रः छन्दः - पञ्चपदातिशक्वरी सूक्तम् - रुद्र सूक्त
    42

    शिं॒शु॒मारा॑ अजग॒राः पु॑री॒कया॑ ज॒षा मत्स्या॑ रज॒सा येभ्यो॒ अस्य॑सि। न ते॑ दू॒रं न प॑रि॒ष्ठास्ति॑ ते भव स॒द्यः सर्वा॒न्परि॑ पश्यसि॒ भूमिं॒ पूर्व॑स्माद्धं॒स्युत्त॑रस्मिन्समु॒द्रे ॥

    स्वर सहित पद पाठ

    शिं॒शु॒मारा॑: । अ॒ज॒ग॒रा: । पु॒री॒कथा॑: । ज॒षा: । मत्स्या॑: । र॒ज॒सा: । येभ्य॑: । अस्य॑सि । न । ते॒ । दू॒रम् । न । प॒रि॒ऽस्था । अ॒स्ति॒ । ते॒ । भ॒व॒ । स॒द्य: । सर्वा॑न् । परि॑ । प॒श्य॒सि॒ । भूमि॑म् । पूर्व॑स्मात् । हं॒सि॒ । उत्त॑रस्मिन् । स॒मु॒द्रे ॥२.२५॥

    स्वर रहित मन्त्र

    शिंशुमारा अजगराः पुरीकया जषा मत्स्या रजसा येभ्यो अस्यसि। न ते दूरं न परिष्ठास्ति ते भव सद्यः सर्वान्परि पश्यसि भूमिं पूर्वस्माद्धंस्युत्तरस्मिन्समुद्रे ॥

    स्वर रहित पद पाठ

    शिंशुमारा: । अजगरा: । पुरीकथा: । जषा: । मत्स्या: । रजसा: । येभ्य: । अस्यसि । न । ते । दूरम् । न । परिऽस्था । अस्ति । ते । भव । सद्य: । सर्वान् । परि । पश्यसि । भूमिम् । पूर्वस्मात् । हंसि । उत्तरस्मिन् । समुद्रे ॥२.२५॥

    अथर्ववेद - काण्ड » 11; सूक्त » 2; मन्त्र » 25
    Acknowledgment

    हिन्दी (1)

    विषय

    ब्रह्मज्ञान से उन्नति का उपदेश।

    पदार्थ

    (अजगराः) अजगर [सर्पविशेष], (शिंशुमाराः) शिशुमार [सूसमार, जलजन्तु], (पुरीकयाः) पुरीकय [जलचर विशेष], (जषाः) जष [झष, मछली विशेष] और (रजसाः) जल में रहनेवाले (मत्स्याः) मच्छ हैं, (येभ्यः) जिन से (अस्यसि=अससि) तू प्रकाशमान है। (भव) हे भव ! [सुखोत्पादक परमेश्वर] (ते) तेरे लिये (दूरम्) कुछ दूर (न) नहीं है और (न)(ते) तेरे लिये (परिष्ठा) रोक-टोक (अस्ति) है, और (सर्वान्) सबों को (सद्यः) तुरन्त ही (परि पश्यसि) तू देख-भाल लेता है, और (पूर्वस्मात्) पूर्वी [समुद्र] से (उत्तरस्मिन् समुद्रे) उत्तरी समुद्र में (भूमिम्) भूमि को (हंसि) तू पहुँचाता है ॥˜२५॥

    भावार्थ

    हे परमेश्वर ! इन सब बड़े-बड़े थलचर और जलचर जन्तुओं के देखने से तेरी अनन्त महिमा जान पड़ती है। तू सब स्थानों में विद्यमान रहकर क्षणभर में इधर के जगत् को उधर कर देता है ॥˜२५॥

    टिप्पणी

    २५−(शिंशुमाराः) अनुनासिकश्छान्दसः। शिशुमाराः। जलजन्तुविशेषाः (अजगराः) अज+गॄ निगरणे-अच्। अजेन अजनेन श्वासबलेन गिरन्ति ये ते। बृहत्सर्पाः (पुरीकयाः) कषिदूषीभ्यामीकन्। उ० ४।१६। पॄ पालनपूरणयोः-ईकन्+या प्रापणे-ड। शॄपॄभ्यां किच्च। उ० ४।२७। पुरीषमुदकनाम-निघ० १।१२। पुरीकं पुरीषं जलं यान्ति गच्छन्ति ये ते। जलचरविशेषाः (जषाः) जष झष हिंसायाम्-घ प्रत्ययः। झषाः। मीनभेदाः (मत्स्याः) जनिदाच्युसृवृमदि०। उ० ४।१०४। मदी हर्षे-स्य प्रत्ययः। जलजन्तुभेदाः। मीनाः (रजसाः) उदकं रज उच्यते-निरु० ४।१९। रजस्-अर्शआद्यच्। उदके भवाः। जलचराः। (येभ्यः) येषां सकाशात् (अस्यसि) अस दीप्तौ दिवादित्वं छान्दसम्। अससि दीप्यसे (न) निषेधे (ते) तव (दूरम्) विप्रकृष्टम् (परिष्ठा) परिवर्जनम् (अस्ति) (ते) (भव) हे सुखोत्पादक परमेश्वर (सद्यः) तत्क्षणम् (सर्वान्) पूर्वोक्तान्, समस्तान् (परि) सर्वतः (पश्यसि) अवलोकयसि (भूमिम्) भूलोकम् (पूर्वस्मात्) पूर्ववर्तिनः समुद्रात् (हंसि) हन हिंसागत्योः अन्तर्गतण्यर्थः। घातयसि। गमयसि (उत्तरस्मिन्) उत्तरदिग्वर्तिनि (समुद्रे) जलधौ ॥˜

    इंग्लिश (1)

    Subject

    Rudra

    Meaning

    Whale, serpent, tortoise, crocodile, fish, and the constellations of stars for which you move light and energy with the Rajas potential of nature, all these are neither far from you nor without you anywhere. Bhava, lord of Being and Becoming, you instantly and simultaneously see them all and you see the earth and the entire universe, and you raise and evolve things from the lower and former forms into the latter and higher forms in the world of existence. (Professor Vishwanatha Vidyalankara has explained the natural creative names as constellations of stars with astronomical evidence in his commentary on this mantra.)

    संस्कृत (1)

    सूचना

    कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।

    टिप्पणीः

    Top