Loading...
अथर्ववेद के काण्ड - 4 के सूक्त 25 के मन्त्र
मन्त्र चुनें
  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड {"suktas":143,"mantras":958,"kand_no":20}/ सूक्त 25/ मन्त्र 1
    सूक्त - मृगारः देवता - वायु, सविता छन्दः - त्रिष्टुप् सूक्तम् - पापमोचन सूक्त
    55

    वा॒योः स॑वि॒तुर्वि॒दथा॑नि मन्महे॒ यावा॑त्म॒न्वद्वि॒शथो॒ यौ च॒ रक्ष॑थः। यौ विश्व॑स्य परि॒भू ब॑भू॒वथु॒स्तौ नो॑ मुञ्चत॒मंह॑सः ॥

    स्वर सहित पद पाठ

    वा॒यो: । स॒वि॒तु: । वि॒दथा॑नि । म॒न्म॒हे॒ । यौ । आ॒त्म॒न्ऽवत् । वि॒शथ॑: । यौ । च॒ । रक्ष॑थ: । यौ । विश्व॑स्य । प॒रि॒भू इति॑ प॒रि॒ऽभू । ब॒भू॒वथु॑: । तौ । न॒: । मु॒ञ्च॒त॒म् । अंह॑स: ॥२५.१॥

    स्वर रहित मन्त्र

    वायोः सवितुर्विदथानि मन्महे यावात्मन्वद्विशथो यौ च रक्षथः। यौ विश्वस्य परिभू बभूवथुस्तौ नो मुञ्चतमंहसः ॥

    स्वर रहित पद पाठ

    वायो: । सवितु: । विदथानि । मन्महे । यौ । आत्मन्ऽवत् । विशथ: । यौ । च । रक्षथ: । यौ । विश्वस्य । परिभू इति परिऽभू । बभूवथु: । तौ । न: । मुञ्चतम् । अंहस: ॥२५.१॥

    अथर्ववेद - काण्ड » 4; सूक्त » 25; मन्त्र » 1
    Acknowledgment

    हिन्दी (1)

    विषय

    पवन और सूर्य के गुणों का उपदेश।

    पदार्थ

    (वायोः) गतिशील वा दोषनाशक पवन के और (सवितुः) सर्वप्रेरक सूर्य के (विदथानि कर्मों को (मन्महे) हम विचारते हैं। (यौ) जो तुम (यौ) गमनशील होकर (आत्मन्वत्) आत्मावाले जगत् में (विशयः) प्रवेश करते हो (च) और (रक्षथः) रक्षा करते हो, (यौ) जो तुम दोनों (विश्वस्य) सब जग के (परिभू) सहारा देनेवाले (बभूवथुः) हुए हो, (तौ) वह तुम दोनों (नः) हमें (अंहसः) कष्ट से (मुञ्चतम्) छुड़ावो ॥१॥

    भावार्थ

    वायु और सूर्य के यथावत् गुण जानकर मनुष्य आत्मिक शारीरिक और सामाजिक उन्नति करें ॥१॥

    टिप्पणी

    १−(वायोः) कृवापा०। उ० १।१। इति वा गतिगन्धनयोः-उण्, युगागमः। गमनशीलस्य दोषनाशकस्य वा जगदाधारभूतस्य वातस्य (सवितुः) सर्वप्रेरकस्य सूर्यस्य (विदथानि) विद ज्ञाने-अथ। वेदितव्यानि कर्माणि (मन्महे) जानीमः। विचारयामः (यौ) वायुसवितारौ युवाम् (आत्मन्वत्) अ० ४।१०।७। सात्मकं स्थावरजङ्गमात्मकं जगत्। जीवनशक्तियुक्तम् (विशथः) प्रविशथः (यौ) या प्रापणे-ड। यातारौ। गन्तारौ सन्तौ (रक्षथः) पालयथः (विश्वस्य) सर्वस्य जगतः (परिभू) अ० ३।२१।४। सुपां सुलुक्०। पा० ७।१।३९। इति पूर्वसवर्णदीर्घः। परिग्रहीतारौ। सर्वतो व्यापकौ (बभूवथुः) (तौ) तथाभूतौ युवाम् (नः) अस्मान् (मुञ्चतम्) मोचयतम् (अंहसः) कष्टात् ॥

    इंग्लिश (1)

    Subject

    Freedom from Sin and Distress

    Meaning

    We contemplate the holy acts and attributes of Vayu, divine cosmic energy, and Savita, refulgent divine creative inspirer, who enter, preserve and promote the living world of nature, who sustain and govern the dynamics of the entire universe. May the two, Vayu and Savita, save us from evil, want and affliction.

    संस्कृत (1)

    सूचना

    कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।

    टिप्पणीः

    Top