Loading...
अथर्ववेद के काण्ड - 5 के सूक्त 22 के मन्त्र
मन्त्र चुनें
  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड {"suktas":143,"mantras":958,"kand_no":20}/ सूक्त 22/ मन्त्र 10
    सूक्त - भृग्वङ्गिराः देवता - तक्मनाशनः छन्दः - अनुष्टुप् सूक्तम् - तक्मनाशन सूक्त
    30

    यत्त्वं शी॒तोऽथो॑ रू॒रः स॒ह का॒सावे॑पयः। भी॒मास्ते॑ तक्मन्हे॒तय॒स्ताभिः॑ स्म॒ परि॑ वृङ्ग्धि नः ॥

    स्वर सहित पद पाठ

    यत् । त्वम् । शी॒त: । अथो॒ इति॑ । रू॒र: । स॒ह । का॒सा । अवे॑पय: । भी॒मा: । ते॒ । त॒क्म॒न् । हे॒तय॑: । ताभि॑: । स्म॒ । परि॑ । वृ॒ङ्गि॒ध । न॒: ॥२२.१०॥


    स्वर रहित मन्त्र

    यत्त्वं शीतोऽथो रूरः सह कासावेपयः। भीमास्ते तक्मन्हेतयस्ताभिः स्म परि वृङ्ग्धि नः ॥

    स्वर रहित पद पाठ

    यत् । त्वम् । शीत: । अथो इति । रूर: । सह । कासा । अवेपय: । भीमा: । ते । तक्मन् । हेतय: । ताभि: । स्म । परि । वृङ्गिध । न: ॥२२.१०॥

    अथर्ववेद - काण्ड » 5; सूक्त » 22; मन्त्र » 10
    Acknowledgment

    हिन्दी (1)

    विषय

    रोग नाश करने का उपदेश।

    पदार्थ

    (यत्) जिस कारण (शीतः) शीत (अथो) और (रूरः) क्रूर (त्वम्) तूने (कासा=कासेन) (सह) खाँसी के साथ [हमें] (अवेपयः) कँपा दिया है। (तक्मन्) हे दुःखित जीवन करनेवाले ज्वर ! (ते) तेरी (हेतयः) चोटें (भीमाः) भयानक हैं, (ताभिः) उनसे (नः) हमको (स्म) अवश्य (परि वृङ्ग्धि) छोड़ दे ॥१०॥

    भावार्थ

    मनुष्य यत्नपूर्वक नीरोग रहकर शारीरिक और मानसिक बल बढ़ावें ॥१०॥ (तक्मा) ज्वर विषय का अ० का० १ स–० २५ से मिलान करो ॥

    टिप्पणी

    १०−(यत्) यस्मात् कारणात् (त्वम्) (शीतः) अ० १।२५।४। शीतलः (अथो) अपि च (रूरः) अ० १।२५।४। रुङ् वधे−रक्, दीर्घः। पीडकः (सह) सहितः (कासा) अ० १।१२।३। विभक्तेराकारः। कासेन। रोगविशेषेण (अवेपयः) टुवेपृ कम्पने णिच्−लङ्। कम्पितवानसि (भीमाः) करालाः (ते) तव (तक्मन्) हे ज्वर (हेतयः) हननशक्तयः (ताभिः) हेतिभिः (स्म) अवश्यम् (परि) (वृङ्ग्धि) वृजी वर्जने। परित्यज (नः) अस्मान् ॥

    इंग्लिश (1)

    Subject

    Cure of Fever

    Meaning

    When it comes with cold and shivering, with pain such as headache, or with cough and shivers, then the attack of fever is really severe. Better it is kept away from us.

    संस्कृत (1)

    सूचना

    कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।

    टिप्पणीः

    १०−(यत्) यस्मात् कारणात् (त्वम्) (शीतः) अ० १।२५।४। शीतलः (अथो) अपि च (रूरः) अ० १।२५।४। रुङ् वधे−रक्, दीर्घः। पीडकः (सह) सहितः (कासा) अ० १।१२।३। विभक्तेराकारः। कासेन। रोगविशेषेण (अवेपयः) टुवेपृ कम्पने णिच्−लङ्। कम्पितवानसि (भीमाः) करालाः (ते) तव (तक्मन्) हे ज्वर (हेतयः) हननशक्तयः (ताभिः) हेतिभिः (स्म) अवश्यम् (परि) (वृङ्ग्धि) वृजी वर्जने। परित्यज (नः) अस्मान् ॥

    Top