अथर्ववेद - काण्ड {"suktas":143,"mantras":958,"kand_no":20}/ सूक्त 22/ मन्त्र 5
सूक्त - भृग्वङ्गिराः
देवता - तक्मनाशनः
छन्दः - विराट्पथ्या बृहती
सूक्तम् - तक्मनाशन सूक्त
28
ओको॑ अस्य॒ मूज॑वन्त॒ ओको॑ अस्य महावृ॒षाः। याव॑ज्जा॒तस्त॑क्मं॒स्तावा॑नसि॒ बल्हि॑केषु न्योच॒रः ॥
स्वर सहित पद पाठओक॑: । अ॒स्य॒ । मूज॑ऽवन्त: । ओक॑: । अ॒स्य॒ । म॒हा॒ऽवृ॒षा: । याव॑त् । जा॒त: । त॒क्म॒न् । तावा॑न् । अ॒सि॒ । बल्हि॑केषु । नि॒ऽओ॒च॒र: ॥२२.५॥
स्वर रहित मन्त्र
ओको अस्य मूजवन्त ओको अस्य महावृषाः। यावज्जातस्तक्मंस्तावानसि बल्हिकेषु न्योचरः ॥
स्वर रहित पद पाठओक: । अस्य । मूजऽवन्त: । ओक: । अस्य । महाऽवृषा: । यावत् । जात: । तक्मन् । तावान् । असि । बल्हिकेषु । निऽओचर: ॥२२.५॥
भाष्य भाग
हिन्दी (1)
विषय
रोग नाश करने का उपदेश।
पदार्थ
(अस्य) इसका (ओकः) घर (मूजवन्तः) मूँज आदि घासवाले पर्वत हैं, और (अस्य) इसका (ओकः) घर (महावृषाः) महावृष्टिवाले देश हैं। (तक्मन्) हे दुःखित जीवन करने हारे ज्वर ! (यावत्) जबसे (जातः) तू उत्पन्न हुआ है, (तावान्=तावत्) तब से तू (बल्हिकेषु) हिंसावाले देशों में (न्योचरः) नित्य संगतिवाला (असि) है ॥५॥
भावार्थ
बहुत घासवाले और बहुत वृष्टिवाले देशों में ज्वर आदि रोग अधिक होते हैं, मनुष्य इसका प्रबन्ध रक्खें ॥५॥
टिप्पणी
५−(ओकः) अञ्च्यञ्जियुजि० उ० ४।२१६। इति उच समवाये−असुन्, कुत्वम्। गृहम् (मूजवन्तः) मुजि ध्वनौ−अच्, मतुप्। नलोपो दीर्घश्च। मूजवान् पर्वतो मुञ्जवान्मुञ्जो विमुच्यत इषीकया−निरु० ९।८। मुञ्जादितृणयुक्ताः पर्वताः (ओकः) (अस्य) (महावृषाः) म० ४। महावृष्टियुक्ता देशाः (यावत्) यत्कालात् (जातः) उत्पन्नोऽसि (तावान्) तावत्। तत्कालात् (असि) (बल्हिकेषु) स्यमेरीट् च। उ० ३।४६। इति बल्ह परिभाषणहिंसाच्छादनेषु−कन्, इडागमः। हिंसादेशेषु (न्योचरः) जनेररष्ठ च। उ० ५।३८। इति नि+उच समवाये−अर। नित्यसंगन्ता ॥
इंग्लिश (1)
Subject
Cure of Fever
Meaning
It spreads in areas of munja grass. Its place is the areas of heavy rains. Ever since it has arisen, it has been observed in troublesome areas of the strong.
संस्कृत (1)
सूचना
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः
५−(ओकः) अञ्च्यञ्जियुजि० उ० ४।२१६। इति उच समवाये−असुन्, कुत्वम्। गृहम् (मूजवन्तः) मुजि ध्वनौ−अच्, मतुप्। नलोपो दीर्घश्च। मूजवान् पर्वतो मुञ्जवान्मुञ्जो विमुच्यत इषीकया−निरु० ९।८। मुञ्जादितृणयुक्ताः पर्वताः (ओकः) (अस्य) (महावृषाः) म० ४। महावृष्टियुक्ता देशाः (यावत्) यत्कालात् (जातः) उत्पन्नोऽसि (तावान्) तावत्। तत्कालात् (असि) (बल्हिकेषु) स्यमेरीट् च। उ० ३।४६। इति बल्ह परिभाषणहिंसाच्छादनेषु−कन्, इडागमः। हिंसादेशेषु (न्योचरः) जनेररष्ठ च। उ० ५।३८। इति नि+उच समवाये−अर। नित्यसंगन्ता ॥
Acknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
Misc Websites, Smt. Premlata Agarwal & Sri Ashish Joshi
Conversion to Unicode/OCR By:
Dr. Naresh Dhiman
Donation for Typing/OCR By:
Sri Amit Upadhyay
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
Sri Dharampal Arya
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
N/A
Co-ordination By:
Sri Virendra Agarwal