अथर्ववेद - काण्ड {"suktas":143,"mantras":958,"kand_no":20}/ सूक्त 29/ मन्त्र 5
सूक्त - चातनः
देवता - जातवेदाः
छन्दः - पुरोतिजगती विराड्जगती
सूक्तम् - रक्षोघ्न सूक्त
28
यद॑स्य हृ॒तं विहृ॑तं॒ यत्परा॑भृतमा॒त्मनो॑ ज॒ग्धं य॑त॒मत्पि॑शा॒चैः। तद॑ग्ने वि॒द्वान्पुन॒रा भ॑र॒ त्वं शरी॑रे मां॒समसु॒मेर॑यामः ॥
स्वर सहित पद पाठयत् । अ॒स्य॒ । हृ॒तम् । विऽहृ॑तम् । यत् । परा॑ऽभृतम् । आ॒त्मन॑: । ज॒ग्धम् । य॒त॒मत् । पि॒शा॒चै: । तत् । अ॒ग्ने॒ । वि॒द्वान् । पुन॑: । आ । भ॒र॒ । त्वम् । शरी॑रे । मां॒सम् ।असु॑म् । आ । ई॒र॒या॒म॒: ॥२९.५॥
स्वर रहित मन्त्र
यदस्य हृतं विहृतं यत्पराभृतमात्मनो जग्धं यतमत्पिशाचैः। तदग्ने विद्वान्पुनरा भर त्वं शरीरे मांसमसुमेरयामः ॥
स्वर रहित पद पाठयत् । अस्य । हृतम् । विऽहृतम् । यत् । पराऽभृतम् । आत्मन: । जग्धम् । यतमत् । पिशाचै: । तत् । अग्ने । विद्वान् । पुन: । आ । भर । त्वम् । शरीरे । मांसम् ।असुम् । आ । ईरयाम: ॥२९.५॥
भाष्य भाग
हिन्दी (1)
विषय
शत्रुओं और रोगों के नाश का उपदेश।
पदार्थ
(पिशाचैः) पिशाचों करके (अस्य) इसके (आत्मनः) शरीर से (यत्) जो (हृतम्) हरा गया, (विहृतम्) लूटा गया, (यत्) जो (पराभृतम्) हटाया गया, और (यतमत्) जो कुछ (जग्धम्) खाया गया है। (अग्ने) हे तेजस्वी पुरुष ! (विद्वान्) विद्वान् (त्वम्) तू (तत्) उसको (पुनः) फिर (आ भर) लाकर भर दे, (शरीरे) इसके शरीर में (मांसम्) मांस और (असुम्) प्राण को (आ ईरयामः) हम स्थापित करते हैं ॥५॥
भावार्थ
राजा और वैद्य गण दुःखी प्रजागणों को यथावत् सुख पहुँचावें ॥५॥
टिप्पणी
५−(यत्) वस्तु (अस्य) पुरुषस्य (हृतम्) गृहीतम् (विहृतम्) अपहृतम् (यत्) (पराभृतम्) दूरे हृतम् (आत्मनः) शरीरात् (जग्धम्) भुक्तम् (यतमत्) यत्किञ्चित् (पिशाचैः) मांसभक्षकैः (तत्) नष्टम् (अग्ने) तेजस्विन् (विद्वान्) पण्डितः (पुनः) (आ भर) आ हर। आनय (त्वम्) (शरीरे) देहे (असुम्) प्राणम् (आ) सम्यक् (ईरयामः) प्रापयामः ॥
इंग्लिश (1)
Subject
Destruction of Germs and Insects
Meaning
O Agni, Jataveda, learned physician, whatever of the health of body and mind of this person has been taken off, eaten up or robbed away by the blood sucking devils, that you repair, replenish and restore to full health. Let us rebuild and restore the muscle and pranic energy in the patient’s body.
संस्कृत (1)
सूचना
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः
५−(यत्) वस्तु (अस्य) पुरुषस्य (हृतम्) गृहीतम् (विहृतम्) अपहृतम् (यत्) (पराभृतम्) दूरे हृतम् (आत्मनः) शरीरात् (जग्धम्) भुक्तम् (यतमत्) यत्किञ्चित् (पिशाचैः) मांसभक्षकैः (तत्) नष्टम् (अग्ने) तेजस्विन् (विद्वान्) पण्डितः (पुनः) (आ भर) आ हर। आनय (त्वम्) (शरीरे) देहे (असुम्) प्राणम् (आ) सम्यक् (ईरयामः) प्रापयामः ॥
Acknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
Misc Websites, Smt. Premlata Agarwal & Sri Ashish Joshi
Conversion to Unicode/OCR By:
Dr. Naresh Dhiman
Donation for Typing/OCR By:
Sri Amit Upadhyay
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
Sri Dharampal Arya
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
N/A
Co-ordination By:
Sri Virendra Agarwal