Loading...
अथर्ववेद के काण्ड - 6 के सूक्त 110 के मन्त्र
मन्त्र चुनें
  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड {"suktas":143,"mantras":958,"kand_no":20}/ सूक्त 110/ मन्त्र 1
    सूक्त - अथर्वा देवता - अग्निः छन्दः - पङ्क्तिः सूक्तम् - दीर्घायु सूक्त
    54

    प्र॒त्नो हि कमीड्यो॑ अध्व॒रेषु॑ स॒नाच्च॒ होता॒ नव्य॑श्च॒ सत्सि॑। स्वां चा॑ग्ने त॒न्वं पि॒प्राय॑स्वा॒स्मभ्यं॑ च॒ सौभ॑ग॒मा य॑जस्व ॥

    स्वर सहित पद पाठ

    प्र॒त्न: । हि । कम् । ईड्य॑: । अ॒ध्व॒रेषु॑ । स॒नात् । च॒ । होता॑ । नव्य॑: । च॒ । स॒त्सि॒ । स्वाम् । च॒ । अ॒ग्ने॒ । त॒न्व᳡म् । प्रि॒प्राय॑स्व । अ॒स्मभ्य॑म् । च॒ । सौभ॑गम् । आ । य॒ज॒स्व॒ ॥११०.१॥

    स्वर रहित मन्त्र

    प्रत्नो हि कमीड्यो अध्वरेषु सनाच्च होता नव्यश्च सत्सि। स्वां चाग्ने तन्वं पिप्रायस्वास्मभ्यं च सौभगमा यजस्व ॥

    स्वर रहित पद पाठ

    प्रत्न: । हि । कम् । ईड्य: । अध्वरेषु । सनात् । च । होता । नव्य: । च । सत्सि । स्वाम् । च । अग्ने । तन्वम् । प्रिप्रायस्व । अस्मभ्यम् । च । सौभगम् । आ । यजस्व ॥११०.१॥

    अथर्ववेद - काण्ड » 6; सूक्त » 110; मन्त्र » 1
    Acknowledgment

    हिन्दी (1)

    विषय

    ऐश्वर्य बढ़ाने के लिये उपदेश।

    पदार्थ

    (अग्ने) हे विद्वान् आचार्य ! (प्रत्नः) प्राचीन, [अनुभवी] (च) और (नव्यः) नूतन [उद्योगी,] (ईड्यः) स्तुतियोग्य (च) और (होता) दाता होकर (सनात्) सदा से (अध्वरेषु) सन्मार्ग देनेवाले वा हिंसारहित व्यवहारों में (हि) अवश्य (कम्) सुख से (सत्सि) तू बैठता है। (च) निश्चय करके (स्वाम्) अपने (तन्वम्) शरीर को (पिप्रायस्व) प्रीतियुक्त कर (च) और (अस्मभ्यम्) हमारे लिये (सौभगम्) अनेक सुन्दर ऐश्वर्य (आ) आकर (यजस्व) दान कर ॥१॥

    भावार्थ

    मनुष्य वृद्ध, अनुभवी उत्साही, उत्तम आचार्य से नम्रतापूर्वक उत्तम शिक्षा ग्रहण करके अपना ऐश्वर्य बढ़ावें ॥१॥ यह मन्त्र कुछ भेद से ऋग्वेद में है−म० ८।११।१० ॥

    टिप्पणी

    १−(प्रत्नः) नश्च पुराणे प्रात्। वा० पा० ५।४।२५। इति प्र−तप्। प्रत्नः पुराणः−निरु० १२।३˜२। प्राचीनः। अनुभवी (हि) अवश्यम् (कम्) सुखेन (ईड्यः) स्तुत्यः (अध्वरेषु) अ० ३।१६।६। सन्मार्गदातृषु हिंसारहितेषु वा व्यवहारेषु (सनात्) सत्यम् (च) समुच्चये। अवधारणे (होता) दाता (नव्यः) अचो यत्। पा० १।३।९७। णु स्तुतौ−यत्। नूतनः। पुरुषार्थी (सत्सि) सीदसि (स्वाम्) स्वकीयाम् (अग्ने) हे विद्वन्। आचार्य (तन्वम्) शरीरम् (प्रिप्रायस्व) प्री प्रीतौ णिचि छान्दसं रूपम्। प्रसन्नां कुरु (अस्मभ्यम्) सेवकेभ्यः (सौभगम्) समूहे−अण्। बह्वैश्वर्याणां समूहम् (आ) आगत्य (यजस्व) देहि ॥

    इंग्लिश (1)

    Subject

    New Born Human

    Meaning

    Self-refulgent Agni, ancient and eternal, happily adorable in yajnic programmes of humanity, ever a beneficent giver, your presence pervades and always sits anew on the vedi. Be kind and gracious. Be kind and gracious to this person, this social order, a new manifestation of your own self, bless it with joy and fulfilment, and bring us all good fortune and prosperity.

    संस्कृत (1)

    सूचना

    कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।

    टिप्पणीः

    Top