Loading...
अथर्ववेद के काण्ड - 6 के सूक्त 73 के मन्त्र
मन्त्र चुनें
  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड {"suktas":143,"mantras":958,"kand_no":20}/ सूक्त 73/ मन्त्र 3
    सूक्त - अथर्वा देवता - वास्तोष्पतिः छन्दः - भुरिगनुष्टुप् सूक्तम् - सांमनस्य सूक्त
    27

    इ॒हैव स्त॒ माप॑ या॒ताध्य॒स्मत्पू॒षा प॒रस्ता॒दप॑थं वः कृणोतु। वास्तो॒ष्पति॒रनु॑ वो जोहवीतु॒ मयि॑ सजाता र॒मति॑र्वो अस्तु ॥

    स्वर सहित पद पाठ

    इ॒ह । ए॒व । स्त॒ । मा । अप॑ । या॒त॒ । अधि॑ । अ॒स्मत् । पू॒षा । प॒रस्ता॑त् । अप॑थम् । व॒: । कृ॒णो॒तु॒ । वास्तो॑: । पति॑: । अनु॑ । व॒: । जो॒ह॒वी॒तु॒ । मयि॑ । स॒ऽजा॒ता॒: । र॒मति॑: । व॒: । अ॒स्तु॒ ॥७३.३॥

    स्वर रहित मन्त्र

    इहैव स्त माप याताध्यस्मत्पूषा परस्तादपथं वः कृणोतु। वास्तोष्पतिरनु वो जोहवीतु मयि सजाता रमतिर्वो अस्तु ॥

    स्वर रहित पद पाठ

    इह । एव । स्त । मा । अप । यात । अधि । अस्मत् । पूषा । परस्तात् । अपथम् । व: । कृणोतु । वास्तो: । पति: । अनु । व: । जोहवीतु । मयि । सऽजाता: । रमति: । व: । अस्तु ॥७३.३॥

    अथर्ववेद - काण्ड » 6; सूक्त » 73; मन्त्र » 3
    Acknowledgment

    हिन्दी (1)

    विषय

    विद्वानों से समागम का उपदेश।

    पदार्थ

    [हे विद्वानो !] (इह) यहाँ पर (एव) ही (स्त) रहो (अस्मत् अधि) हम से (मा अप यात) हट कर न जाओ, (पूषा) पोषण करनेवाला गृहस्थ (परस्तात्) उत्तर-उत्तर काल में (वः) तुम्हारे लिये (अपथम्) अभय (कृणोतु) करे। (वास्तोः) घर का (पतिः) स्वामी [गृहस्थ] (वः) तुमको (अनु) निरन्तर (जोहवीतु) बुलाता रहे। (सजाताः) हे समान जन्मवाले बान्धवो ! (वः) तुम्हारे (रमतिः) क्रीड़ा [प्रसन्नता] (मयि) मुझ में (अस्तु) होवे ॥३॥

    भावार्थ

    जो धार्मिक गृहस्थ विद्वानों को अभय ज्ञान दान करके आदरपूर्वक गुणग्रहण करते हैं, वे संसार में आनन्द भोगते हैं ॥३॥

    टिप्पणी

    ३−(इह) अस्मिन् समाजे (एव) निश्चयेन (स्त) वर्त्तध्वम् (मा अपयात) दूरे मा गच्छत (अधि) पञ्चम्यर्थानुवादी (अस्मत्) अस्मत्तः (पूषा) पोषको गृहस्थः (परस्तात्) अ० ४।१६।४। पर−अस्ताति। परस्मिन् पश्चात्काले (अपथम्) अपथम्। थुड संवरणे−ड। थं भयम्। अपगतं च तत् थं च तत्। अभयम् (वः) युष्मभ्यम् (कृणोतु) करोतुं (वास्तोः) वसेरगारे णिच्च। उ० १।७०। इति वस निवासे तुन् स च णित्। वास्तुर्वसतेर्निवासकर्मणः−निरु० १२।१६। गृहस्य (पतिः) स्वामी (अनु) अनन्तरम् (वः) युष्मान् (जोहवीतु) अ० –२।१२।३। ह्वयतेर्यङ्लुकि लोट्। पुनः पुनराह्वयतु। अन्यत् पूर्ववत्−म० २ ॥

    इंग्लिश (1)

    Subject

    United Humanity

    Meaning

    Be here, stay here together, go not away from us. Let Pusha, the spirit of life, sustenance and growth together, rule out separation from our united system and declare it out of bounds. Let the architect of the universal home of humanity keep you joined together and maintain the cohesive pressure from within with constant sense of urgency. O people of the world, all equal in brotherhood, let all your love, interests and ambitions be united and centred into me, heart of the Samrat Purusha.

    संस्कृत (1)

    सूचना

    कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।

    टिप्पणीः

    Top