Loading...
अथर्ववेद के काण्ड - 9 के सूक्त 3 के मन्त्र
मन्त्र चुनें
  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड {"suktas":143,"mantras":958,"kand_no":20}/ सूक्त 3/ मन्त्र 18
    सूक्त - भृग्वङ्गिराः देवता - शाला छन्दः - अनुष्टुप् सूक्तम् - शाला सूक्त
    28

    इट॑स्य ते॒ वि चृ॑ता॒म्यपि॑नद्धमपोर्णु॒वन्। वरु॑णेन॒ समु॑ब्जितां मि॒त्रः प्रा॒तर्व्युब्जतु ॥

    स्वर सहित पद पाठ

    इट॑स्य । ते॒ । वि । चृ॒ता॒मि॒ । अप‍ि॑ऽनध्दम् । अ॒प॒ऽऊ॒र्णु॒वन् । वरु॑णेन । सम्ऽउ॑ब्जिताम् । मि॒त्र: । प्रा॒त: । वि । उ॒ब्ज॒तु॒ ॥३.१८॥


    स्वर रहित मन्त्र

    इटस्य ते वि चृताम्यपिनद्धमपोर्णुवन्। वरुणेन समुब्जितां मित्रः प्रातर्व्युब्जतु ॥

    स्वर रहित पद पाठ

    इटस्य । ते । वि । चृतामि । अप‍िऽनध्दम् । अपऽऊर्णुवन् । वरुणेन । सम्ऽउब्जिताम् । मित्र: । प्रात: । वि । उब्जतु ॥३.१८॥

    अथर्ववेद - काण्ड » 9; सूक्त » 3; मन्त्र » 18
    Acknowledgment

    हिन्दी (1)

    विषय

    शाला बनाने की विधि का उपदेश।[इस सूक्त का मिलान अथर्व काण्ड ३ सूक्त १२ से करो]

    पदार्थ

    [हे शाला !] (ते) तेरे (इटस्य) द्वार के (अपिनद्धम्) बन्धन को (अपोर्णुवन्) खोलता हुआ मैं (वि चृतामि) अच्छे प्रकार ग्रन्थित करता हूँ। (वरुणेन) ढकनेवाले अन्धकार से (समुब्जिताम्) दबाई हुई [तुझ] को (मित्रः) सर्वप्रेरक सूर्य (प्रातः) प्रातःकाल (वि उब्जतु) खोल देवे ॥१८॥

    भावार्थ

    मनुष्य घर के द्वारों में शृङ्खला चटकनी आदि ऐसी लगावें, जिससे अन्धकार के समय बन्द करने और प्रकाश के समय खोलने में सुभीता हो ॥१८॥

    टिप्पणी

    १८−(इटस्य) इट् गतौ-क। गमनागमनस्थानस्य द्वारस्य (ते) तव (वि चृतामि) विशेषेण ग्रन्थयामि (अपिनद्धम्) बन्धनम् (अपोर्णुवन्) विवृण्वन् (वरुणेन) आवरकेण तमसा (समुब्जिताम्) संवृतां त्वाम् (मित्रः) सर्वप्रेरकः सूर्यः (प्रातः) प्रभाते (वि उब्जतु) विवृणोतु ॥

    इंग्लिश (1)

    Subject

    The Good House

    Meaning

    Opening the main gate of the house earlier closed and secured for the night, I fix it for the day. May the sun uncover and illuminate the home covered in darkness at night.

    संस्कृत (1)

    सूचना

    कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।

    टिप्पणीः

    १८−(इटस्य) इट् गतौ-क। गमनागमनस्थानस्य द्वारस्य (ते) तव (वि चृतामि) विशेषेण ग्रन्थयामि (अपिनद्धम्) बन्धनम् (अपोर्णुवन्) विवृण्वन् (वरुणेन) आवरकेण तमसा (समुब्जिताम्) संवृतां त्वाम् (मित्रः) सर्वप्रेरकः सूर्यः (प्रातः) प्रभाते (वि उब्जतु) विवृणोतु ॥

    Top