Loading...
अथर्ववेद के काण्ड - 9 के सूक्त 5 के मन्त्र
मन्त्र चुनें
  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड {"suktas":143,"mantras":958,"kand_no":20}/ सूक्त 5/ मन्त्र 12
    सूक्त - भृगुः देवता - अजः पञ्चौदनः छन्दः - त्रिष्टुप् सूक्तम् - अज सूक्त
    42

    ई॑जा॒नानां॑ सु॒कृतां॑ लो॒कमीप्स॒न्पञ्चौ॑दनं ब्र॒ह्मणे॒ऽजं द॑दाति। स व्याप्तिम॒भि लो॒कं ज॑यै॒तं शि॒वो॒ऽस्मभ्यं॒ प्रति॑गृहीतो अस्तु ॥

    स्वर सहित पद पाठ

    ई॒जा॒नाना॑म् । सु॒ऽकृता॑म् । लो॒कम् । ईप्स॑न् । पञ्च॑ऽओदनम् । ब्र॒ह्मणे॑ । अ॒जम् । द॒दा॒ति॒ । स: । विऽआ॒प्तिम् । अ॒भि । लो॒कम् । ज॒य॒ । ए॒तम् । शि॒व: । अ॒स्मभ्य॑म् । प्रति॑ऽगृहीत:। अ॒स्तु॒ ॥५.१२॥


    स्वर रहित मन्त्र

    ईजानानां सुकृतां लोकमीप्सन्पञ्चौदनं ब्रह्मणेऽजं ददाति। स व्याप्तिमभि लोकं जयैतं शिवोऽस्मभ्यं प्रतिगृहीतो अस्तु ॥

    स्वर रहित पद पाठ

    ईजानानाम् । सुऽकृताम् । लोकम् । ईप्सन् । पञ्चऽओदनम् । ब्रह्मणे । अजम् । ददाति । स: । विऽआप्तिम् । अभि । लोकम् । जय । एतम् । शिव: । अस्मभ्यम् । प्रतिऽगृहीत:। अस्तु ॥५.१२॥

    अथर्ववेद - काण्ड » 9; सूक्त » 5; मन्त्र » 12
    Acknowledgment

    हिन्दी (1)

    विषय

    ब्रह्मज्ञान से सुख का उपदेश।

    पदार्थ

    (ईजानानाम्) यज्ञ [देवपूजा, संगतिकरण, दान] कर चुकनेवाले (सुकृताम्) सुकर्मियों के (लोकम्) लोक को (ईप्सन्) चाहता हुआ पुरुष (ब्रह्मणे) ब्रह्म [परमेश्वर] के लिये (पञ्चौदनम्) पाँच भूतों [पृथिवी आदि] से सींचे हुए (अजम्) अजन्मे वा गतिशील जीवात्मा का (ददाति) दान करता है। [इसलिये] (सः) वह तू (व्याप्तिम् अभि) [सुख की] पूर्ण प्राप्ति के लिये (एतम् लोकम्) इस लोक को (जय) जीत, [जिससे, परमेश्वर करके] (प्रतिगृहीतः) स्वीकार किया हुआ [जीवात्मा] (अस्मभ्यम्) हमारे लिये (शिवः) मङ्गलकारी (अस्तु) होवे ॥१२॥

    भावार्थ

    जो मनुष्य अग्रज आप्त विद्वानों के समान परमेश्वर की आज्ञापालन में आत्मसमर्पण करके पुरुषार्थ करता है, वह सबके लिये मङ्गलकारी होता है ॥१२॥

    टिप्पणी

    १२−(ईजानानाम्) म० ८। यज्ञं कुर्वताम् (सुकृताम्) सुकर्मिणाम् (लोकम्) दर्शनीयं पदम् (ईप्सन्) प्राप्तुमिच्छन् (पञ्चौदनम्) म० ८। पञ्चभूतैः सिक्तम् (ब्रह्मणे) परमेश्वराय (अजम्) जीवात्मानम् (ददाति) (सः) स त्वम् (व्याप्तिम्) विविधां सुखप्राप्तिम् (अभि) प्रति (लोकम्) (जय) उत्कर्षेण प्राप्नुहि (एतम्) (शिवः) मङ्गलकारी (अस्मभ्यम्) (प्रतिगृहीतः) ब्रह्मणा स्वीकृतः (अस्तु) ॥

    इंग्लिश (1)

    Subject

    The Soul, the Pilgrim

    Meaning

    One, who aspires to the state of noble souls of holy action and divine association, dedicates the immortal soul in the existential state to the Supreme Brahma. Such aspirant as you are, O Aja, aspire and win for yourself the rise to that divine state of life, and may you, accepted and loved therein, be good and auspicious for us too as a source of inspiration.

    संस्कृत (1)

    सूचना

    कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।

    टिप्पणीः

    १२−(ईजानानाम्) म० ८। यज्ञं कुर्वताम् (सुकृताम्) सुकर्मिणाम् (लोकम्) दर्शनीयं पदम् (ईप्सन्) प्राप्तुमिच्छन् (पञ्चौदनम्) म० ८। पञ्चभूतैः सिक्तम् (ब्रह्मणे) परमेश्वराय (अजम्) जीवात्मानम् (ददाति) (सः) स त्वम् (व्याप्तिम्) विविधां सुखप्राप्तिम् (अभि) प्रति (लोकम्) (जय) उत्कर्षेण प्राप्नुहि (एतम्) (शिवः) मङ्गलकारी (अस्मभ्यम्) (प्रतिगृहीतः) ब्रह्मणा स्वीकृतः (अस्तु) ॥

    Top