Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1176
ऋषिः - प्रतर्दनो दैवोदासिः
देवता - पवमानः सोमः
छन्दः - त्रिष्टुप्
स्वरः - धैवतः
काण्ड नाम -
1
ऋ꣣षि꣢मना꣣ य꣡ ऋ꣢षि꣣कृ꣢त्स्व꣣र्षाः꣢ स꣣ह꣡स्र꣢नीथः पद꣣वीः꣡ क꣢वी꣣ना꣢म् । तृ꣣ती꣢यं꣣ धा꣡म꣢ महि꣣षः꣡ सिषा꣢꣯स꣣न्त्सो꣡मो꣢ वि꣣रा꣢ज꣣म꣡नु꣢ राजति꣣ ष्टु꣢प् ॥११७६॥
स्वर सहित पद पाठऋ꣡षि꣢꣯मनाः । ऋ꣡षि꣢꣯ । म꣣नाः । यः꣢ । ऋ꣣षिकृ꣢त् । ऋ꣣षि । कृ꣢त् । स्व꣣र्षाः꣢ । स्वः꣣ । साः꣢ । स꣣ह꣡स्र꣢नीथः । स꣣ह꣡स्र꣢ । नी꣣थः । पदवीः꣢ । प꣣द । वीः꣢ । क꣣वीना꣢म् । तृ꣣ती꣡य꣢म् । धा꣡म꣢꣯ । म꣣हिषः꣢ । सि꣡षा꣢꣯सन् । सो꣡मः꣢꣯ । वि꣡रा꣡ज꣢म् । वि꣣ । रा꣡ज꣢꣯म् । अ꣡नु꣢꣯ । रा꣣जति । स्तु꣢प् ॥११७६॥
स्वर रहित मन्त्र
ऋषिमना य ऋषिकृत्स्वर्षाः सहस्रनीथः पदवीः कवीनाम् । तृतीयं धाम महिषः सिषासन्त्सोमो विराजमनु राजति ष्टुप् ॥११७६॥
स्वर रहित पद पाठ
ऋषिमनाः । ऋषि । मनाः । यः । ऋषिकृत् । ऋषि । कृत् । स्वर्षाः । स्वः । साः । सहस्रनीथः । सहस्र । नीथः । पदवीः । पद । वीः । कवीनाम् । तृतीयम् । धाम । महिषः । सिषासन् । सोमः । विराजम् । वि । राजम् । अनु । राजति । स्तुप् ॥११७६॥
सामवेद - मन्त्र संख्या : 1176
(कौथुम) उत्तरार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 1; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 9; खण्ड » 1; सूक्त » 1; मन्त्र » 2
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 1; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 9; खण्ड » 1; सूक्त » 1; मन्त्र » 2
Acknowledgment
भावार्थ - जो परमेश्वर ऋषिपद प्राप्त करवून मोक्ष देतो, त्याची उपासना करून सर्वांनी सौभाग्यवान व्हावे. ॥२॥
इस भाष्य को एडिट करें