अथर्ववेद - काण्ड 5/ सूक्त 2/ मन्त्र 1
सूक्त - बृहद्दिवोऽथर्वा
देवता - वरुणः
छन्दः - त्रिष्टुप्
सूक्तम् - भुवनज्येष्ठ सूक्त
तदिदा॑स॒ भुव॑नेषु॒ ज्येष्ठं॒ यतो॑ य॒ज्ञ उ॒ग्रस्त्वे॒षनृ॑म्णः। स॒द्यो ज॑ज्ञा॒नो नि रि॑णाति॒ शत्रू॒ननु॒ यदे॑नं॒ मद॑न्ति॒ विश्व॒ ऊमाः॑ ॥
स्वर सहित पद पाठतत् । इत् । आ॒स॒ । भुव॑नेषु । ज्येष्ठ॑म् । यत॑: । ज॒ज्ञे । उ॒ग्र: । त्वे॒षऽनृ॑म्ण: । स॒द्य: । ज॒ज्ञा॒न: । नि । रि॒णा॒ति॒ । शत्रू॑न् । अनु॑ । यत् । ए॒न॒म् । मद॑न्ति । विश्वे॑ । ऊमा॑: ॥२.१॥
स्वर रहित मन्त्र
तदिदास भुवनेषु ज्येष्ठं यतो यज्ञ उग्रस्त्वेषनृम्णः। सद्यो जज्ञानो नि रिणाति शत्रूननु यदेनं मदन्ति विश्व ऊमाः ॥
स्वर रहित पद पाठतत् । इत् । आस । भुवनेषु । ज्येष्ठम् । यत: । जज्ञे । उग्र: । त्वेषऽनृम्ण: । सद्य: । जज्ञान: । नि । रिणाति । शत्रून् । अनु । यत् । एनम् । मदन्ति । विश्वे । ऊमा: ॥२.१॥
अथर्ववेद - काण्ड » 5; सूक्त » 2; मन्त्र » 1
भाषार्थ -
(तद् इत् आस) वह ही ब्रह्म था (भुवनेषु ) सब भुवनों में (ज्येष्ठम् ) बड़ा, (यतः) जिससे (उग्र:) रश्मियों द्वारा उग्र, (त्वेषनृम्णः) दीप्तिधन वाला आदित्य (जज्ञे) पैदा हुआ। (जज्ञानः) पैदा हुआ आदित्य (सद्यः) तत्काल (शत्रून्) अन्धकार आदि शत्रुओं को (निरिणाति) नितरां नष्ट करता है, (यत्) जबकि (विश्वे ऊमा:) सब रक्षकगण (एनम् अनु) इस आदित्य की निरन्तर ( मदन्ति) स्तुति करते हैं।
टिप्पणी -
[नृम्णम् धननाम (निघं० २।१० ) । रिणाति=री रेषणे (क्र्यादिः), प्वादित्वात् ह्रस्वः (महीधर) । मदन्ति=मदि स्तुतौ (भ्वादिः)। ऊमाः= अवन्ति रक्षन्ति इति रक्षकाः, अवतेर्मन् प्रत्ययः। च्छ्वोः शूङ् ( अष्टा० ६।४।१९) इति 'ऊठ्' (महीधर)।]