ऋग्वेद - मण्डल 8/ सूक्त 2/ मन्त्र 42
ऋषिः - मेधातिथिः
देवता - विभिन्दोर्दानस्तुतिः
छन्दः - निचृदार्षीगायत्री
स्वरः - षड्जः
उ॒त सु त्ये प॑यो॒वृधा॑ मा॒की रण॑स्य न॒प्त्या॑ । ज॒नि॒त्व॒नाय॑ मामहे ॥
स्वर सहित पद पाठउ॒त । सु । त्ये इति॑ । प॒यः॒ऽवृधा॑ । मा॒की इति॑ । रण॑स्य । न॒प्त्या॑ । ज॒नि॒ऽत्व॒नाय॑ । म॒म॒हे॒ ॥
स्वर रहित मन्त्र
उत सु त्ये पयोवृधा माकी रणस्य नप्त्या । जनित्वनाय मामहे ॥
स्वर रहित पद पाठउत । सु । त्ये इति । पयःऽवृधा । माकी इति । रणस्य । नप्त्या । जनिऽत्वनाय । ममहे ॥ ८.२.४२
ऋग्वेद - मण्डल » 8; सूक्त » 2; मन्त्र » 42
अष्टक » 5; अध्याय » 7; वर्ग » 24; मन्त्र » 7
अष्टक » 5; अध्याय » 7; वर्ग » 24; मन्त्र » 7
विषयः - ईशविभूतिं दर्शयति ।
पदार्थः -
अनेन सूक्तेन इन्द्रवाच्यं महेशं स्तुत्वा तदन्ते तेन निर्मितयोर्द्यावापृथिव्योः स्तुतिर्दर्श्यते । एतेन संसारस्यापि गुणा ज्ञातव्या इति शिक्षते । तथाहि उत=अथापि । वयं सर्वे विद्वांसः । त्ये=ते सुप्रसिद्धे द्यावापृथिव्यौ । जनित्वनाय=विज्ञानजननाय=ज्ञानविज्ञानप्राप्तये । सुमामहे =सुस्तुमः, एतयोर्गुणान् प्रकाशयाम इत्यर्थः । कीदृश्यौ त्ये । पयोवृधा=पयोवृधौ=पयसो मधुरमयस्य पदार्थस्य वर्धयित्र्यौ । पुनः । रणस्य=रमणीयवस्तुनः । माकी= निर्मात्र्यौ । पुनः । नप्त्या=नप्त्ये=न पतनशीले अविनश्वरे इत्यर्थः ॥४२ ॥