Loading...
ऋग्वेद मण्डल - 8 के सूक्त 20 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 8/ सूक्त 20/ मन्त्र 1
    ऋषिः - सोभरिः काण्वः देवता - मरूतः छन्दः - ककुबुष्णिक् स्वरः - ऋषभः

    आ ग॑न्ता॒ मा रि॑षण्यत॒ प्रस्था॑वानो॒ माप॑ स्थाता समन्यवः । स्थि॒रा चि॑न्नमयिष्णवः ॥

    स्वर सहित पद पाठ

    आ । ग॒न्ता॒ । मा । रि॒ष॒ण्य॒त॒ । प्रऽस्था॑वानः । मा । अप॑ । स्था॒त॒ । स॒ऽम॒न्य॒वः॒ । स्थि॒रा । चि॒त् । न॒म॒यि॒ष्ण॒वः॒ ॥


    स्वर रहित मन्त्र

    आ गन्ता मा रिषण्यत प्रस्थावानो माप स्थाता समन्यवः । स्थिरा चिन्नमयिष्णवः ॥

    स्वर रहित पद पाठ

    आ । गन्ता । मा । रिषण्यत । प्रऽस्थावानः । मा । अप । स्थात । सऽमन्यवः । स्थिरा । चित् । नमयिष्णवः ॥ ८.२०.१

    ऋग्वेद - मण्डल » 8; सूक्त » 20; मन्त्र » 1
    अष्टक » 6; अध्याय » 1; वर्ग » 36; मन्त्र » 1

    पदार्थः -
    हे प्रस्थावानः=सतां रक्षणाय सदा प्रस्थानशीला मरुन्नामकाः सैन्यजनाः । यूयमागन्त=आगच्छत=सर्वत्र प्राप्नुत । मा रिषण्यत=निरपराधिनं कमपि मा हिंस्त । समन्यवः=मन्युः=क्रोधः तेन सहिताः । मा अपस्थात=मा तिष्ठत । यतो यूयम् । स्थिराचित्=स्थिराणि दृढान्यपि वस्तूनि । नमयिष्णवः=नमयितारः । दृढानामपि पर्वतादीनां कम्पयितारः स्थ । अतो यूयं क्रोधं करिष्यथ तदा प्रजामध्ये महती हानिर्भविष्यति ॥१ ॥

    इस भाष्य को एडिट करें
    Top