ऋग्वेद - मण्डल 8/ सूक्त 22/ मन्त्र 3
इ॒ह त्या पु॑रु॒भूत॑मा दे॒वा नमो॑भिर॒श्विना॑ । अ॒र्वा॒ची॒ना स्वव॑से करामहे॒ गन्ता॑रा दा॒शुषो॑ गृ॒हम् ॥
स्वर सहित पद पाठइ॒ह । त्या । पु॒रु॒ऽभूत॑मा । दे॒वा । नमः॑ऽभिः । अ॒श्विना॑ । अ॒र्वा॒ची॒ना । सु । अव॑से । क॒रा॒म॒हे॒ । गन्ता॑रा । दा॒शुषः॑ । गृ॒हम् ॥
स्वर रहित मन्त्र
इह त्या पुरुभूतमा देवा नमोभिरश्विना । अर्वाचीना स्ववसे करामहे गन्तारा दाशुषो गृहम् ॥
स्वर रहित पद पाठइह । त्या । पुरुऽभूतमा । देवा । नमःऽभिः । अश्विना । अर्वाचीना । सु । अवसे । करामहे । गन्तारा । दाशुषः । गृहम् ॥ ८.२२.३
ऋग्वेद - मण्डल » 8; सूक्त » 22; मन्त्र » 3
अष्टक » 6; अध्याय » 2; वर्ग » 5; मन्त्र » 3
अष्टक » 6; अध्याय » 2; वर्ग » 5; मन्त्र » 3
विषयः - हे मनुष्याः ! युष्मदर्थं कीदृशौ राजमन्त्रिणौ प्रेषयामीति जानीत ।
पदार्थः -
हे मनुष्याः ! यौ राजमन्त्रिदलौ । इह=पृथिव्यामुपरि । पुरुभूतमा=पुरुभूतमौ=पुरूणां बहूनां सतामतिशयेन भावयितारौ=सम्मानयितारौ । भवेताम् । देवा=देवौ= दिव्यगुणसम्पन्नौ । नमोभिः=सत्कारैर्युक्तौ । अश्विनौ= अश्वयुक्तौ=गुणैः प्रजानां हृदयेषु व्याप्तौ । अवसे=रक्षणाय । सदा । अर्वाचीना=अर्वाचीनौ= अभिमुखयातारौ । पुनः । दाशुषः=भक्तजनस्य । गृहम् । गन्तारा=गन्तारौ । ईदृशौ । यौ स्तः । त्या=तौ राजानौ । वयम् । करामहे=कुर्मः ॥३ ॥