Loading...
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 8/ सूक्त 23/ मन्त्र 29
    ऋषिः - विश्वमना वैयश्वः देवता - अग्निः छन्दः - विराडुष्निक् स्वरः - ऋषभः

    त्वं हि सु॑प्र॒तूरसि॒ त्वं नो॒ गोम॑ती॒रिष॑: । म॒हो रा॒यः सा॒तिम॑ग्ने॒ अपा॑ वृधि ॥

    स्वर सहित पद पाठ

    त्वम् । हि । सु॒ऽप्र॒तूः । असि॑ । त्वम् । नः॒ । गोऽम॑तीः । इषः॑ । म॒हः । रा॒यः । सा॒तिम् । अ॒ग्ने॒ । अप॑ । वृ॒धि॒ ॥


    स्वर रहित मन्त्र

    त्वं हि सुप्रतूरसि त्वं नो गोमतीरिष: । महो रायः सातिमग्ने अपा वृधि ॥

    स्वर रहित पद पाठ

    त्वम् । हि । सुऽप्रतूः । असि । त्वम् । नः । गोऽमतीः । इषः । महः । रायः । सातिम् । अग्ने । अप । वृधि ॥ ८.२३.२९

    ऋग्वेद - मण्डल » 8; सूक्त » 23; मन्त्र » 29
    अष्टक » 6; अध्याय » 2; वर्ग » 14; मन्त्र » 4

    पदार्थः -
    हे अग्ने ! त्वम्+हि=त्वमेव । सुप्रतूः+असि=स्तोतॄणां सुष्ठु धनादिप्रदातासि । गोमतीः=गवादियुक्ताः । इषः=अन्नानि । अपि च । महः=महतः । रायः=धनस्य । सातिम्=भागञ्च । अपावृधि=अपावृणु=प्रयच्छ ॥२९ ॥

    इस भाष्य को एडिट करें
    Top