Loading...
ऋग्वेद मण्डल - 8 के सूक्त 3 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 8/ सूक्त 3/ मन्त्र 23
    ऋषिः - मेध्यातिथिः काण्वः देवता - पाकस्थाम्नः कौरयाणस्य दानस्तुतिः छन्दः - निचृद्गायत्री स्वरः - षड्जः

    यस्मा॑ अ॒न्ये दश॒ प्रति॒ धुरं॒ वह॑न्ति॒ वह्न॑यः । अस्तं॒ वयो॒ न तुग्र्य॑म् ॥

    स्वर सहित पद पाठ

    यस्मै॑ । अ॒न्ये । दश॑ । प्रति॑ । धुर॑म् । वह॑न्ति । वह्न॑यः । अस्तम् । वयः॑ । न । तुग्र्य॑म् ॥


    स्वर रहित मन्त्र

    यस्मा अन्ये दश प्रति धुरं वहन्ति वह्नयः । अस्तं वयो न तुग्र्यम् ॥

    स्वर रहित पद पाठ

    यस्मै । अन्ये । दश । प्रति । धुरम् । वहन्ति । वह्नयः । अस्तम् । वयः । न । तुग्र्यम् ॥ ८.३.२३

    ऋग्वेद - मण्डल » 8; सूक्त » 3; मन्त्र » 23
    अष्टक » 5; अध्याय » 7; वर्ग » 29; मन्त्र » 3

    पदार्थः -
    पुनरपि मन एव विशिष्यते । यथा−यस्मै=रोहितनाम्ने मनसे=मनसः साहाय्यार्थम् । धुरं प्रति=शरीररूपां धुरं प्रति । अन्ये=इतरे कर्मज्ञानेन्द्रियस्वरूपाः । दश=दशसंख्याकाः । वह्नयः=वोढारः । वहन्ति । अत्र दृष्टान्तः । न=यथा । वयः=गन्तारोऽश्वाः । तुग्र्यम्=राजानम् । अस्तम्=गृहं वहन्ति । तद्वत् । अस्यते क्षिप्यते वस्तुजातं तस्मिन्निति अस्तं गृहम् । तुग्र्य उग्रो भवति । दण्डधारित्वाद् राज्ञ उग्रत्वम् ॥२३ ॥

    इस भाष्य को एडिट करें
    Top