ऋग्वेद - मण्डल 8/ सूक्त 31/ मन्त्र 3
ऋषिः - मनुर्वैवस्वतः
देवता - ईज्यास्तवो यजमानप्रशंसा च
छन्दः - गायत्री
स्वरः - षड्जः
तस्य॑ द्यु॒माँ अ॑स॒द्रथो॑ दे॒वजू॑त॒: स शू॑शुवत् । विश्वा॑ व॒न्वन्न॑मि॒त्रिया॑ ॥
स्वर सहित पद पाठतस्य॑ । द्यु॒ऽमाम् । अ॒स॒त् । रथः॑ । दे॒वऽजू॑तः । सः । शू॒शु॒व॒त् । विश्वा॑ । व॒न्वन् । अ॒मि॒त्रिया॑ ॥
स्वर रहित मन्त्र
तस्य द्युमाँ असद्रथो देवजूत: स शूशुवत् । विश्वा वन्वन्नमित्रिया ॥
स्वर रहित पद पाठतस्य । द्युऽमाम् । असत् । रथः । देवऽजूतः । सः । शूशुवत् । विश्वा । वन्वन् । अमित्रिया ॥ ८.३१.३
ऋग्वेद - मण्डल » 8; सूक्त » 31; मन्त्र » 3
अष्टक » 6; अध्याय » 2; वर्ग » 38; मन्त्र » 3
अष्टक » 6; अध्याय » 2; वर्ग » 38; मन्त्र » 3
विषयः - N/A
पदार्थः -
यः खलु ईश्वरसान्निध्यमुप धावति । तस्य । रथः शरीररूपः अश्वादियुक्तो वा । द्युमान् दीप्तिमान् । देवजूतः देवैः शिष्टेन्द्रियैः श्रेष्ठैरश्वैर्वा प्रेरितो भवति । शरीरे इन्द्रियाणि सर्वदेवेष्टमाचरन्ति । स पुनरुपासकः । विश्वा=विश्वानि सर्वाणि । अमित्रिया=अमित्रियान् परोत्पादितान् बाधान् । वन्वन् हिंसन् सन् । शूशुवत् धनैर्ज्ञानैर्लोकैश्च वर्धत एव । न कदापि तस्याधः पतनं भवतीति अनया शिक्षते ॥३ ॥