Loading...
ऋग्वेद मण्डल - 8 के सूक्त 38 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 8/ सूक्त 38/ मन्त्र 1
    ऋषिः - श्यावाश्वः देवता - इन्द्राग्नी छन्दः - गायत्री स्वरः - षड्जः

    य॒ज्ञस्य॒ हि स्थ ऋ॒त्विजा॒ सस्नी॒ वाजे॑षु॒ कर्म॑सु । इन्द्रा॑ग्नी॒ तस्य॑ बोधतम् ॥

    स्वर सहित पद पाठ

    य॒ज्ञस्य॑ । हि । स्थः । ऋ॒त्विजा॑ । सस्नी॒ इति॑ । वाजे॑षु । कर्म॑सु । इन्द्रा॑ग्नी॒ इति॑ । तस्य॑ । बो॒ध॒त॒म् ॥


    स्वर रहित मन्त्र

    यज्ञस्य हि स्थ ऋत्विजा सस्नी वाजेषु कर्मसु । इन्द्राग्नी तस्य बोधतम् ॥

    स्वर रहित पद पाठ

    यज्ञस्य । हि । स्थः । ऋत्विजा । सस्नी इति । वाजेषु । कर्मसु । इन्द्राग्नी इति । तस्य । बोधतम् ॥ ८.३८.१

    ऋग्वेद - मण्डल » 8; सूक्त » 38; मन्त्र » 1
    अष्टक » 6; अध्याय » 3; वर्ग » 20; मन्त्र » 1

    पदार्थः -
    हे इन्द्राग्नी=हे क्षत्रियब्राह्मणौ यद्वा राजदूतौ ! इन्द्रः क्षत्रियोपलक्षको राज्यशासकत्वात् । अग्निर्ब्राह्मणोपलक्षकः कर्मशासकत्वात् । तस्य+बोधतम्=तदेतद्वस्तु । बोधतम्=युवां जानीतम् । हि=यतः । युवं यज्ञस्य । ऋत्विजा=ऋत्विजौ स्थः । पुनः सस्नी=शुद्धौ । पुनः वाजेषु कर्मसु=युद्धसम्बन्धिषु ज्ञानसम्बन्धिषु च कर्मसु । अधिकृतौ स्थः ॥–१ ॥

    इस भाष्य को एडिट करें
    Top