Loading...
ऋग्वेद मण्डल - 8 के सूक्त 39 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 8/ सूक्त 39/ मन्त्र 10
    ऋषिः - नाभाकः काण्वः देवता - अग्निः छन्दः - त्रिष्टुप् स्वरः - धैवतः

    त्वं नो॑ अग्न आ॒युषु॒ त्वं दे॒वेषु॑ पूर्व्य॒ वस्व॒ एक॑ इरज्यसि । त्वामाप॑: परि॒स्रुत॒: परि॑ यन्ति॒ स्वसे॑तवो॒ नभ॑न्तामन्य॒के स॑मे ॥

    स्वर सहित पद पाठ

    त्वम् । नः॒ । अ॒ग्ने॒ । आ॒युषु॑ । त्वम् । दे॒वेषु॑ । पू॒र्व्य॒ । वस्वः॑ । एकः॑ । इ॒र॒ज्य॒सि॒ । त्वाम् । आपः॑ । प॒रि॒ऽस्रुतः॑ । परि॑ । य॒न्ति॒ । स्वऽसे॑तवः । नभ॑न्ताम् । अ॒न्य॒के । स॒मे॒ ॥


    स्वर रहित मन्त्र

    त्वं नो अग्न आयुषु त्वं देवेषु पूर्व्य वस्व एक इरज्यसि । त्वामाप: परिस्रुत: परि यन्ति स्वसेतवो नभन्तामन्यके समे ॥

    स्वर रहित पद पाठ

    त्वम् । नः । अग्ने । आयुषु । त्वम् । देवेषु । पूर्व्य । वस्वः । एकः । इरज्यसि । त्वाम् । आपः । परिऽस्रुतः । परि । यन्ति । स्वऽसेतवः । नभन्ताम् । अन्यके । समे ॥ ८.३९.१०

    ऋग्वेद - मण्डल » 8; सूक्त » 39; मन्त्र » 10
    अष्टक » 6; अध्याय » 3; वर्ग » 23; मन्त्र » 5

    पदार्थः -
    हे अग्ने ! त्वम् । नः=अस्माकम् । आयुषु=मनुष्येषु । आयव इति मनुष्यनाम । वस्वः=धनस्य । इरज्यसि=ईशिषे । हे पूर्व्य=पूर्णः ! त्वमेक एव । देवेष्वपि धनस्येशिषे । स्वसेतवः=स्वयमेव स्यन्दनशीलाः सामर्थ्यादायुक्ताः । अतः परिस्रुतः=परिस्रवन्त्यः । आपः=जलानि । त्वाम् । परियन्ति । प्राप्नुवन्ति । समे=सर्वे । अन्यके=अन्यशत्रवः । नभन्ताम्=विनश्यन्तु । विनाशयन्तां वा । नभतिहिंसाकर्म ॥१० ॥

    इस भाष्य को एडिट करें
    Top