ऋग्वेद - मण्डल 8/ सूक्त 44/ मन्त्र 2
अग्ने॒ स्तोमं॑ जुषस्व मे॒ वर्ध॑स्वा॒नेन॒ मन्म॑ना । प्रति॑ सू॒क्तानि॑ हर्य नः ॥
स्वर सहित पद पाठअग्ने॑ । स्तोम॑म् । जु॒ष॒स्व॒ । मे॒ । वर्ध॑स्व । अ॒नेन॑ । मन्म॑ना । प्रति॑ । सु॒ऽउ॒क्तानि॑ । ह॒र्य॒ । नः॒ ॥
स्वर रहित मन्त्र
अग्ने स्तोमं जुषस्व मे वर्धस्वानेन मन्मना । प्रति सूक्तानि हर्य नः ॥
स्वर रहित पद पाठअग्ने । स्तोमम् । जुषस्व । मे । वर्धस्व । अनेन । मन्मना । प्रति । सुऽउक्तानि । हर्य । नः ॥ ८.४४.२
ऋग्वेद - मण्डल » 8; सूक्त » 44; मन्त्र » 2
अष्टक » 6; अध्याय » 3; वर्ग » 36; मन्त्र » 2
अष्टक » 6; अध्याय » 3; वर्ग » 36; मन्त्र » 2
विषयः - अग्निहोत्रसमयेऽग्निसंज्ञः परमात्मा स्तोतव्य इत्युपदिशति ।
पदार्थः -
हे अग्ने सर्वगत ! सुसूक्ष्म ! मे=ममोपासकस्य । स्तोमं=स्तोत्रम् । जुषस्व=गृहाण । हे भगवन् ! अनेन मन्मना=मननीयेन स्तोत्रेण पूजितः प्रार्थितस्त्वम् । अस्मान् । वर्धस्व=वर्धय । पुनः । नः=अस्माकम् । सूक्तानि= सुवचनानि । प्रतिहर्य=प्रतिकामय ॥२ ॥