ऋग्वेद - मण्डल 8/ सूक्त 45/ मन्त्र 42
यस्य॑ ते वि॒श्वमा॑नुषो॒ भूरे॑र्द॒त्तस्य॒ वेद॑ति । वसु॑ स्पा॒र्हं तदा भ॑र ॥
स्वर सहित पद पाठयस्य॑ । ते॒ । वि॒श्वऽमा॑नुषः । भूरेः॑ । द॒त्तस्य॑ । वेद॑ति । वसु॑ । स्पा॒र्हम् । तत् । आ । भ॒र॒ ॥
स्वर रहित मन्त्र
यस्य ते विश्वमानुषो भूरेर्दत्तस्य वेदति । वसु स्पार्हं तदा भर ॥
स्वर रहित पद पाठयस्य । ते । विश्वऽमानुषः । भूरेः । दत्तस्य । वेदति । वसु । स्पार्हम् । तत् । आ । भर ॥ ८.४५.४२
ऋग्वेद - मण्डल » 8; सूक्त » 45; मन्त्र » 42
अष्टक » 6; अध्याय » 3; वर्ग » 49; मन्त्र » 7
अष्टक » 6; अध्याय » 3; वर्ग » 49; मन्त्र » 7
विषयः - N/A
पदार्थः -
हे महेश ! विश्वमानुषः=सर्वे मनुष्याः । ते=त्वया । दत्तस्य=दत्तम् । भूरेर्बहु । यस्य=यद्धनम् । अत्र कर्मणि षष्ठी । वेदति=जानाति । तत् स्पार्हं वसु आभर ॥४२ ॥