Loading...
ऋग्वेद मण्डल - 8 के सूक्त 61 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 8/ सूक्त 61/ मन्त्र 1
    ऋषिः - भर्गः प्रागाथः देवता - इन्द्र: छन्दः - निचृद्बृहती स्वरः - मध्यमः

    उ॒भयं॑ शृ॒णव॑च्च न॒ इन्द्रो॑ अ॒र्वागि॒दं वच॑: । स॒त्राच्या॑ म॒घवा॒ सोम॑पीतये धि॒या शवि॑ष्ठ॒ आ ग॑मत् ॥

    स्वर सहित पद पाठ

    उ॒भय॑म् । शृ॒णव॑त् । च॒ । नः॒ । इन्द्रः॑ । अ॒र्वाक् । इ॒दम् । वचः॑ । स॒त्राच्या॑ । म॒घऽवा॑ । सोम॑ऽपीतये । धि॒या । शवि॑ष्ठः । आ । ग॒म॒त् ॥


    स्वर रहित मन्त्र

    उभयं शृणवच्च न इन्द्रो अर्वागिदं वच: । सत्राच्या मघवा सोमपीतये धिया शविष्ठ आ गमत् ॥

    स्वर रहित पद पाठ

    उभयम् । शृणवत् । च । नः । इन्द्रः । अर्वाक् । इदम् । वचः । सत्राच्या । मघऽवा । सोमऽपीतये । धिया । शविष्ठः । आ । गमत् ॥ ८.६१.१

    ऋग्वेद - मण्डल » 8; सूक्त » 61; मन्त्र » 1
    अष्टक » 6; अध्याय » 4; वर्ग » 36; मन्त्र » 1

    पदार्थः -
    अर्वाग्=अस्मदभिमुखं यथा तथा भूत्वा । इन्द्रः= सर्वैश्वर्य्ययुक्त ईशः । नः=अस्माकम् । उभयञ्च= उभयविधम्=वैदिकं लौकिकञ्च यद्वा गद्यात्मकं पद्यात्मकञ्च । इदं प्रस्तूयमानम् । वचः । शृणवत्=शृणोतु । तथा मघवा=सर्वधनयुक्तप्रदः । शविष्ठः=परमबली ईशः । सत्राच्या=सहाञ्चन्त्या । अस्माकम् । धिया=कर्मणा प्रसन्नः सन् । सोमपीतये=सोमानां पदार्थानां पीतये=रक्षणाय । आगमत्=आगच्छतु ॥१ ॥

    इस भाष्य को एडिट करें
    Top