ऋग्वेद - मण्डल 8/ सूक्त 63/ मन्त्र 2
दि॒वो मानं॒ नोत्स॑द॒न्त्सोम॑पृष्ठासो॒ अद्र॑यः । उ॒क्था ब्रह्म॑ च॒ शंस्या॑ ॥
स्वर सहित पद पाठदि॒वः । मान॑म् । न । उत् । स॒द॒न् । सोम॑ऽपृष्ठासः । अद्र॑यः । उ॒क्था । ब्रह्म॑ । च॒ । शंस्या॑ ॥
स्वर रहित मन्त्र
दिवो मानं नोत्सदन्त्सोमपृष्ठासो अद्रयः । उक्था ब्रह्म च शंस्या ॥
स्वर रहित पद पाठदिवः । मानम् । न । उत् । सदन् । सोमऽपृष्ठासः । अद्रयः । उक्था । ब्रह्म । च । शंस्या ॥ ८.६३.२
ऋग्वेद - मण्डल » 8; सूक्त » 63; मन्त्र » 2
अष्टक » 6; अध्याय » 4; वर्ग » 42; मन्त्र » 2
अष्टक » 6; अध्याय » 4; वर्ग » 42; मन्त्र » 2
विषयः - इन्द्रः स्तूयते ।
पदार्थः -
सोमपृष्ठासः=सोमलतादिसंयुक्तपृष्ठाः । अद्रयः=स्थावराः पर्वता अपि । तं दिवोमानं=द्युलोकस्य निर्मातारं-ईश्वरम् । नोत्सदन्=न त्यक्तवन्तः=न च त्यजन्ति । तर्हि मनुष्यास्तं कथं त्यजेयुरित्याशयः । अतो हे मनुष्याः ! तमुद्दिश्य । उक्था=उक्थानि=पवित्राणि वाक्यानि । ब्रह्म च= ब्रह्माणि=स्तोत्राणि च । युष्माभिः । शंस्या=शंसनीयानि= वक्तव्यानीत्यर्थः ॥२ ॥