ऋग्वेद - मण्डल 8/ सूक्त 67/ मन्त्र 2
ऋषिः - मत्स्यः साम्मदो मान्यो वा मैत्रावरुणिर्बहवो वा मत्स्या जालनध्दाः
देवता - आदित्याः
छन्दः - निचृद्गायत्री
स्वरः - षड्जः
मि॒त्रो नो॒ अत्यं॑ह॒तिं वरु॑णः पर्षदर्य॒मा । आ॒दि॒त्यासो॒ यथा॑ वि॒दुः ॥
स्वर सहित पद पाठमि॒त्रः । नः॒ । अति॑ । अं॒ह॒तिम् । वरु॑णः । प॒र्ष॒त् । अ॒र्य॒मा । आ॒दि॒त्यासः॑ । यथा॑ । वि॒दुः ॥
स्वर रहित मन्त्र
मित्रो नो अत्यंहतिं वरुणः पर्षदर्यमा । आदित्यासो यथा विदुः ॥
स्वर रहित पद पाठमित्रः । नः । अति । अंहतिम् । वरुणः । पर्षत् । अर्यमा । आदित्यासः । यथा । विदुः ॥ ८.६७.२
ऋग्वेद - मण्डल » 8; सूक्त » 67; मन्त्र » 2
अष्टक » 6; अध्याय » 4; वर्ग » 51; मन्त्र » 2
अष्टक » 6; अध्याय » 4; वर्ग » 51; मन्त्र » 2
विषयः - N/A
पदार्थः -
मित्रः=ब्राह्मणप्रतिनिधिः । वरुणः=क्षत्रियप्रतिनिधिः । अर्य्यमा=वैश्यप्रतिनिधिः । आदित्यासः=आदित्याः= आदित्यवद्ध्वाननिवारका अन्ये सभासदः । यथा विदुः=यथा जानन्ति । तथा । नः=अस्माकम् । अंहतिम्=क्लेशमुपद्रवं दुर्भिक्षं पापमित्येवंविधान् विघ्नान् । अतिपर्षद्=अतिनयन्तु अत्यन्तं दूरमपसारयन्तु ॥२ ॥