ऋग्वेद - मण्डल 8/ सूक्त 7/ मन्त्र 2
यद॒ङ्ग त॑विषीयवो॒ यामं॑ शुभ्रा॒ अचि॑ध्वम् । नि पर्व॑ता अहासत ॥
स्वर सहित पद पाठयत् । अ॒ङ्ग । त॒वि॒षी॒ऽय॒वः॒ । याम॑म् । शुभ्राः॑ । अचि॑ध्वम् । नि । पर्व॑ताः । अ॒हा॒स॒त॒ ॥
स्वर रहित मन्त्र
यदङ्ग तविषीयवो यामं शुभ्रा अचिध्वम् । नि पर्वता अहासत ॥
स्वर रहित पद पाठयत् । अङ्ग । तविषीऽयवः । यामम् । शुभ्राः । अचिध्वम् । नि । पर्वताः । अहासत ॥ ८.७.२
ऋग्वेद - मण्डल » 8; सूक्त » 7; मन्त्र » 2
अष्टक » 5; अध्याय » 8; वर्ग » 18; मन्त्र » 2
अष्टक » 5; अध्याय » 8; वर्ग » 18; मन्त्र » 2
विषयः - प्राणायामफलमाह ।
पदार्थः -
अङ्गेति सम्बोधनार्थः । अङ्ग=हे तविषीयवः= “तवषीति बलनाम” तां कामयमानाः=बलयुक्ता वा । हे शुभ्राः=श्वेताः=शुद्धाः प्राणाः । यद्=यदा । यामम्= प्राणायामम् । नियमनकर्तारं परमात्मानं वा । अचिध्वम्=चिनुथ=जानीथ । तदा । पर्वताः=पर्ववन्ति शिरांसि । न्यहासत=ईश्वराभिमुखं गच्छन्ति । ओहाङ् गतौ ॥२ ॥