Loading...
ऋग्वेद मण्डल - 8 के सूक्त 75 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 8/ सूक्त 75/ मन्त्र 1
    ऋषिः - विरुपः देवता - अग्निः छन्दः - निचृद्गायत्री स्वरः - षड्जः

    यु॒क्ष्वा हि दे॑व॒हूत॑माँ॒ अश्वाँ॑ अग्ने र॒थीरि॑व । नि होता॑ पू॒र्व्यः स॑दः ॥

    स्वर सहित पद पाठ

    यु॒क्ष्व । हि । दे॒व॒ऽहूत॑मान् । अश्वा॑न् । अ॒ग्ने॒ । र॒थीःऽइ॑व । नि । होता॑ । पू॒र्व्यः॑ । स॒दः॒ ॥


    स्वर रहित मन्त्र

    युक्ष्वा हि देवहूतमाँ अश्वाँ अग्ने रथीरिव । नि होता पूर्व्यः सदः ॥

    स्वर रहित पद पाठ

    युक्ष्व । हि । देवऽहूतमान् । अश्वान् । अग्ने । रथीःऽइव । नि । होता । पूर्व्यः । सदः ॥ ८.७५.१

    ऋग्वेद - मण्डल » 8; सूक्त » 75; मन्त्र » 1
    अष्टक » 6; अध्याय » 5; वर्ग » 24; मन्त्र » 1

    पदार्थः -
    हे अग्ने=सर्वाधारेश ! देवहूतमान्=देवानां प्राणिनां हूतमान्=दातृतमान् । अश्वान्=सूर्य्यादिलोकान् । युक्ष्व= सुकार्य्ये नियोजय । अत्र दृष्टान्तः । रथीरिव=यथा रथी अश्वान् नियोजयति । हे भगवन् ! त्वं होता=दाता । पूर्व्यः=पूर्णो वा । नि+सदः=उपविश ॥१ ॥

    इस भाष्य को एडिट करें
    Top