Loading...
ऋग्वेद मण्डल - 8 के सूक्त 8 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 8/ सूक्त 8/ मन्त्र 23
    ऋषिः - सध्वंशः काण्वः देवता - अश्विनौ छन्दः - विराडार्ष्यनुष्टुप् स्वरः - गान्धारः

    त्रीणि॑ प॒दान्य॒श्विनो॑रा॒विः सान्ति॒ गुहा॑ प॒रः । क॒वी ऋ॒तस्य॒ पत्म॑भिर॒र्वाग्जी॒वेभ्य॒स्परि॑ ॥

    स्वर सहित पद पाठ

    त्रीणि॑ । प॒दानि॑ । अ॒श्विनोः॑ । आ॒विः । सन्ति॑ । गुइहा॑ । प॒रः । क॒वी इति॑ । ऋ॒तस्य॑ । पत्म॑ऽभिः । अ॒र्वाक् । जी॒वेभ्यः॑ । परि॑ ॥


    स्वर रहित मन्त्र

    त्रीणि पदान्यश्विनोराविः सान्ति गुहा परः । कवी ऋतस्य पत्मभिरर्वाग्जीवेभ्यस्परि ॥

    स्वर रहित पद पाठ

    त्रीणि । पदानि । अश्विनोः । आविः । सन्ति । गुइहा । परः । कवी इति । ऋतस्य । पत्मऽभिः । अर्वाक् । जीवेभ्यः । परि ॥ ८.८.२३

    ऋग्वेद - मण्डल » 8; सूक्त » 8; मन्त्र » 23
    अष्टक » 5; अध्याय » 8; वर्ग » 29; मन्त्र » 3

    पदार्थः -
    ययोः । अश्विनोः=राजामात्ययोः । त्रीणि पदानि=त्रिसंख्याकानि पदानि=राजसभाविद्यासभा- धर्मसभारूपाणि । गुहा परः=गुहायाः परः=प्रकाशस्थाने= प्रत्यक्षाणीत्यर्थः । आविः सान्ति=आविः सन्ति=आविर्भवन्ति “सान्तीत्यत्र छान्दसो दीर्घः” तौ । ऋतस्य=सत्यनियमस्य । कवी=क्रान्तदर्शिनौ=तत्त्वविदौ स्तः । पुनस्तौ । तैरेव । पत्मभिः=पादैः । जीवेभ्यः परि=परिरुपर्य्यर्थः सर्वेषां जीवानामुपरि । अर्वागभिमुखं यथा तथा पूज्यौ भवतः ॥२३ ॥

    इस भाष्य को एडिट करें
    Top