ऋग्वेद - मण्डल 8/ सूक्त 9/ मन्त्र 21
यन्नू॒नं धी॒भिर॑श्विना पि॒तुर्योना॑ नि॒षीद॑थः । यद्वा॑ सु॒म्नेभि॑रुक्थ्या ॥
स्वर सहित पद पाठयत् । नू॒नम् । धी॒भिः । अ॒श्वि॒ना॒ । पि॒तुः । योना॑ । नि॒ऽसीद॑थः । यत् । वा॒ । सु॒म्नेभिः॑ । उ॒क्थ्या॒ ॥
स्वर रहित मन्त्र
यन्नूनं धीभिरश्विना पितुर्योना निषीदथः । यद्वा सुम्नेभिरुक्थ्या ॥
स्वर रहित पद पाठयत् । नूनम् । धीभिः । अश्विना । पितुः । योना । निऽसीदथः । यत् । वा । सुम्नेभिः । उक्थ्या ॥ ८.९.२१
ऋग्वेद - मण्डल » 8; सूक्त » 9; मन्त्र » 21
अष्टक » 5; अध्याय » 8; वर्ग » 33; मन्त्र » 6
अष्टक » 5; अध्याय » 8; वर्ग » 33; मन्त्र » 6
विषयः - प्रातर्विधिमाह ।
पदार्थः -
हे अश्विना=अश्विनौ=अश्वयुक्तौ राजानौ । यद्=यदि युवां सम्प्रति पितुर्जनकस्य । योना=योनौ=गृहे=स्वराजधान्याम् । धीभिः=अन्यान्यैः कर्मभिः सह । निषीदथः=उपविशथो वर्तेथे । यद्वा । हे उक्थ्या=उक्थ्यौ माननीयौ ! अन्यत्र क्वचित् । सुम्नेभिः=सुम्नैः सुखैः सह वर्तेथे । तस्मात् सर्वस्मात् स्थानादिदानीम् ईश्वरमुपीसायाथाम् ॥२१ ॥