Loading...
ऋग्वेद मण्डल - 10 के सूक्त 113 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 113/ मन्त्र 1
    ऋषिः - शतप्रभेदनो वैरूपः देवता - इन्द्र: छन्दः - जगती स्वरः - निषादः

    तम॑स्य॒ द्यावा॑पृथि॒वी सचे॑तसा॒ विश्वे॑भिर्दे॒वैरनु॒ शुष्म॑मावताम् । यदैत्कृ॑ण्वा॒नो म॑हि॒मान॑मिन्द्रि॒यं पी॒त्वी सोम॑स्य॒ क्रतु॑माँ अवर्धत ॥

    स्वर सहित पद पाठ

    तम् । अ॒स्य॒ । द्यावा॑पृथि॒वी इति॑ । सऽचे॑तसा । विश्वे॑भिः । दे॒वैः । अनु॑ । शुष्म॑म् । आ॒व॒ता॒म् । यत् । ऐत् । कृ॒ण्वा॒नः । म॒हि॒मान॑म् । इ॒न्द्रि॒यम् । पी॒त्वी । सोम॑स्य । क्रतु॑ऽमान् । अ॒व॒र्ध॒त॒ ॥


    स्वर रहित मन्त्र

    तमस्य द्यावापृथिवी सचेतसा विश्वेभिर्देवैरनु शुष्ममावताम् । यदैत्कृण्वानो महिमानमिन्द्रियं पीत्वी सोमस्य क्रतुमाँ अवर्धत ॥

    स्वर रहित पद पाठ

    तम् । अस्य । द्यावापृथिवी इति । सऽचेतसा । विश्वेभिः । देवैः । अनु । शुष्मम् । आवताम् । यत् । ऐत् । कृण्वानः । महिमानम् । इन्द्रियम् । पीत्वी । सोमस्य । क्रतुऽमान् । अवर्धत ॥ १०.११३.१

    ऋग्वेद - मण्डल » 10; सूक्त » 113; मन्त्र » 1
    अष्टक » 8; अध्याय » 6; वर्ग » 14; मन्त्र » 1

    Meaning -
    May heaven and earth along with all the nobilities of nature and humanity, all of equal and agreeable mind, follow, protect and promote the might of Indra, this ruling power of the world, when he goes forward to display that power and grandeur of his mind and senses and, exalted by the happy and exhilarating glory of his dominion in action, rises in greatness and majesty.

    इस भाष्य को एडिट करें
    Top