Loading...
ऋग्वेद मण्डल - 10 के सूक्त 142 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 142/ मन्त्र 1
    ऋषिः - शार्ङ्गाः देवता - अग्निः छन्दः - निचृज्जगती स्वरः - निषादः

    अ॒यम॑ग्ने जरि॒ता त्वे अ॑भू॒दपि॒ सह॑सः सूनो न॒ह्य१॒॑न्यदस्त्याप्य॑म् । भ॒द्रं हि शर्म॑ त्रि॒वरू॑थ॒मस्ति॑ त आ॒रे हिंसा॑ना॒मप॑ दि॒द्युमा कृ॑धि ॥

    स्वर सहित पद पाठ

    अ॒यम् । अ॒ग्ने॒ । ज॒रि॒ता । त्वे इति॑ । अ॒भू॒त् । अपि॑ । सह॑सः । सू॒नो॒ इति॑ । न॒हि । अ॒न्यत् । अस्ति॑ । आप्य॑म् । भ॒द्रम् । हि । शर्म॑ । त्रि॒ऽवरू॑थम् । अस्ति॑ । ते॒ । आ॒रे । हिंसा॑नाम् । अप॑ । दि॒द्युम् । आ । कृ॒धि॒ ॥


    स्वर रहित मन्त्र

    अयमग्ने जरिता त्वे अभूदपि सहसः सूनो नह्य१न्यदस्त्याप्यम् । भद्रं हि शर्म त्रिवरूथमस्ति त आरे हिंसानामप दिद्युमा कृधि ॥

    स्वर रहित पद पाठ

    अयम् । अग्ने । जरिता । त्वे इति । अभूत् । अपि । सहसः । सूनो इति । नहि । अन्यत् । अस्ति । आप्यम् । भद्रम् । हि । शर्म । त्रिऽवरूथम् । अस्ति । ते । आरे । हिंसानाम् । अप । दिद्युम् । आ । कृधि ॥ १०.१४२.१

    ऋग्वेद - मण्डल » 10; सूक्त » 142; मन्त्र » 1
    अष्टक » 8; अध्याय » 7; वर्ग » 30; मन्त्र » 1

    Meaning -
    O self-refulgent light of life, Agni, this celebrant is dedicated to you wholly in worship and service. O creator and inspirer of strength, patience and fortitude, there is none other than you worth attaining. Blissful is your power of body, mind and soul. Pray cast away the pain and sufferance caused by the burning oppression of violent enemies.

    इस भाष्य को एडिट करें
    Top