ऋग्वेद - मण्डल 10/ सूक्त 16/ मन्त्र 2
शृ॒तं य॒दा कर॑सि जातवे॒दोऽथे॑मेनं॒ परि॑ दत्तात्पि॒तृभ्य॑: । य॒दा गच्छा॒त्यसु॑नीतिमे॒तामथा॑ दे॒वानां॑ वश॒नीर्भ॑वाति ॥
स्वर सहित पद पाठशृ॒तम् । य॒दा । कर॑सि । जा॒त॒ऽवे॒दः॒ । अथ॑ । ई॒म् । ए॒न॒म् । परि॑ । द॒त्ता॒त् । पि॒तृऽभ्यः॑ । य॒दा । गच्छा॑ति । असु॑ऽनीतिम् । ए॒ताम् । अथ॑ । दे॒वाना॑म् । व॒श॒ऽनीः । भ॒वा॒ति॒ ॥
स्वर रहित मन्त्र
शृतं यदा करसि जातवेदोऽथेमेनं परि दत्तात्पितृभ्य: । यदा गच्छात्यसुनीतिमेतामथा देवानां वशनीर्भवाति ॥
स्वर रहित पद पाठशृतम् । यदा । करसि । जातऽवेदः । अथ । ईम् । एनम् । परि । दत्तात् । पितृऽभ्यः । यदा । गच्छाति । असुऽनीतिम् । एताम् । अथ । देवानाम् । वशऽनीः । भवाति ॥ १०.१६.२
ऋग्वेद - मण्डल » 10; सूक्त » 16; मन्त्र » 2
अष्टक » 7; अध्याय » 6; वर्ग » 20; मन्त्र » 2
अष्टक » 7; अध्याय » 6; वर्ग » 20; मन्त्र » 2
Meaning -
O Jataveda, when you have reduced its gross body to ash and delivered it to the sun rays, when it comes to the process of transmigration to higher constituent elements, then it is subjected to the laws of other divinities.