साइडबार
ऋग्वेद - मण्डल 10/ सूक्त 167/ मन्त्र 3
सोम॑स्य॒ राज्ञो॒ वरु॑णस्य॒ धर्म॑णि॒ बृह॒स्पते॒रनु॑मत्या उ॒ शर्म॑णि । तवा॒हम॒द्य म॑घव॒न्नुप॑स्तुतौ॒ धात॒र्विधा॑तः क॒लशाँ॑ अभक्षयम् ॥
स्वर सहित पद पाठसोम॑स्य । राज्ञः॑ । वरु॑णस्य । धर्म॑णि । बृह॒स्पतेः॑ । अनु॑ऽमत्याः । ऊँ॒ इति॑ । शर्म॑णि । तव॑ । अ॒हम् । अ॒द्य । म॒घ॒ऽव॒न् । उप॑ऽस्तुतौ । धातः॑ । विऽधा॑त॒रिति॒ विऽधा॑तः । क॒लशा॑न् । अ॒भ॒क्ष॒य॒म् ॥
स्वर रहित मन्त्र
सोमस्य राज्ञो वरुणस्य धर्मणि बृहस्पतेरनुमत्या उ शर्मणि । तवाहमद्य मघवन्नुपस्तुतौ धातर्विधातः कलशाँ अभक्षयम् ॥
स्वर रहित पद पाठसोमस्य । राज्ञः । वरुणस्य । धर्मणि । बृहस्पतेः । अनुऽमत्याः । ऊँ इति । शर्मणि । तव । अहम् । अद्य । मघऽवन् । उपऽस्तुतौ । धातः । विऽधातरिति विऽधातः । कलशान् । अभक्षयम् ॥ १०.१६७.३
ऋग्वेद - मण्डल » 10; सूक्त » 167; मन्त्र » 3
अष्टक » 8; अध्याय » 8; वर्ग » 25; मन्त्र » 3
अष्टक » 8; अध्याय » 8; वर्ग » 25; मन्त्र » 3
Meaning -
O Maghavan, lord of power and glory, Dhata, ruler, Vidhata, controller of the state and its administration, this day I invite you to the holy investiture and to take over the various departments and institutions of the state in the ruling order of the law of Soma, peace, and Varuna, justice, in the house of Brhaspati, supreme presiding power, and Anumati, will of the nation.