ऋग्वेद - मण्डल 10/ सूक्त 3/ मन्त्र 2
कृ॒ष्णां यदेनी॑म॒भि वर्प॑सा॒ भूज्ज॒नय॒न्योषां॑ बृह॒तः पि॒तुर्जाम् । ऊ॒र्ध्वं भा॒नुं सूर्य॑स्य स्तभा॒यन्दि॒वो वसु॑भिरर॒तिर्वि भा॑ति ॥
स्वर सहित पद पाठकृ॒ष्णाम् । यत् । एनी॑म् । अ॒भि । वर्प॑सा । भूत् । ज॒नय॑न् । योषा॑म् । बृ॒ह॒तः । पि॒तुः । जाम् । ऊ॒र्ध्वम् । भा॒नुम् । सूर्य॑स्य । स्त॒भा॒यन् । दि॒वः । वसु॑ऽभिः । अ॒र॒तिः । वि । भा॒ति॒ ॥
स्वर रहित मन्त्र
कृष्णां यदेनीमभि वर्पसा भूज्जनयन्योषां बृहतः पितुर्जाम् । ऊर्ध्वं भानुं सूर्यस्य स्तभायन्दिवो वसुभिररतिर्वि भाति ॥
स्वर रहित पद पाठकृष्णाम् । यत् । एनीम् । अभि । वर्पसा । भूत् । जनयन् । योषाम् । बृहतः । पितुः । जाम् । ऊर्ध्वम् । भानुम् । सूर्यस्य । स्तभायन् । दिवः । वसुऽभिः । अरतिः । वि । भाति ॥ १०.३.२
ऋग्वेद - मण्डल » 10; सूक्त » 3; मन्त्र » 2
अष्टक » 7; अध्याय » 5; वर्ग » 31; मन्त्र » 2
अष्टक » 7; अध्याय » 5; वर्ग » 31; मन्त्र » 2
Meaning -
Then again, overcoming the dark passage of the night with its illumination of light and manifesting the youthful daughter of great and vast heaven bearing the light of the sun up above, the same Agni shines with heavenly light constantly for the day.