ऋग्वेद - मण्डल 10/ सूक्त 48/ मन्त्र 1
ऋषिः - इन्द्रो वैकुण्ठः
देवता - इन्द्रो वैकुण्ठः
छन्दः - पादनिचृज्ज्गती
स्वरः - निषादः
अ॒हं भु॑वं॒ वसु॑नः पू॒र्व्यस्पति॑र॒हं धना॑नि॒ सं ज॑यामि॒ शश्व॑तः । मां ह॑वन्ते पि॒तरं॒ न ज॒न्तवो॒ऽहं दा॒शुषे॒ वि भ॑जामि॒ भोज॑नम् ॥
स्वर सहित पद पाठअ॒हम् । भु॒व॒म् । वसु॑नः । पू॒र्व्यः । पतिः॑ । अ॒हम् । धना॑नि । सम् । ज॒जा॒मि॒ । शश्व॑तः । माम् । ह॒व॒न्ते॒ । पि॒तर॑म् । न । ज॒न्तवः॑ । अ॒हम् । दा॒शुषे॑ । वि । भ॒जा॒मि॒ । भोज॑नम् ॥
स्वर रहित मन्त्र
अहं भुवं वसुनः पूर्व्यस्पतिरहं धनानि सं जयामि शश्वतः । मां हवन्ते पितरं न जन्तवोऽहं दाशुषे वि भजामि भोजनम् ॥
स्वर रहित पद पाठअहम् । भुवम् । वसुनः । पूर्व्यः । पतिः । अहम् । धनानि । सम् । जजामि । शश्वतः । माम् । हवन्ते । पितरम् । न । जन्तवः । अहम् । दाशुषे । वि । भजामि । भोजनम् ॥ १०.४८.१
ऋग्वेद - मण्डल » 10; सूक्त » 48; मन्त्र » 1
अष्टक » 8; अध्याय » 1; वर्ग » 5; मन्त्र » 1
अष्टक » 8; अध्याय » 1; वर्ग » 5; मन्त्र » 1
Meaning -
I am the eternal lord, master protector and promoter of the world of existence. I create, raise, protect and rule over the eternal wealths of the world. Living beings call on me as father, mother and saviour guardian. I provide food and sustenance for generous humanity dedicated to service and yajna.