ऋग्वेद - मण्डल 10/ सूक्त 63/ मन्त्र 2
ऋषिः - गयः प्लातः
देवता - विश्वेदेवा:
छन्दः - पादनिचृज्ज्गती
स्वरः - निषादः
विश्वा॒ हि वो॑ नम॒स्या॑नि॒ वन्द्या॒ नामा॑नि देवा उ॒त य॒ज्ञिया॑नि वः । ये स्थ जा॒ता अदि॑तेर॒द्भ्यस्परि॒ ये पृ॑थि॒व्यास्ते म॑ इ॒ह श्रु॑ता॒ हव॑म् ॥
स्वर सहित पद पाठविश्वा॑ । हि । वः॒ । न॒म॒स्या॑नि । वन्द्या॑ । नामा॑नि । दे॒वाः॒ । उ॒त । य॒ज्ञिया॑नि । वः॒ । ये । स्थ । जा॒ताः । अदि॑तेः । अ॒त्ऽभ्यः । परि॑ । ये । पृ॒थि॒व्याः । ते । मे॒ । इ॒ह । श्रु॒त॒ । हव॑म् ॥
स्वर रहित मन्त्र
विश्वा हि वो नमस्यानि वन्द्या नामानि देवा उत यज्ञियानि वः । ये स्थ जाता अदितेरद्भ्यस्परि ये पृथिव्यास्ते म इह श्रुता हवम् ॥
स्वर रहित पद पाठविश्वा । हि । वः । नमस्यानि । वन्द्या । नामानि । देवाः । उत । यज्ञियानि । वः । ये । स्थ । जाताः । अदितेः । अत्ऽभ्यः । परि । ये । पृथिव्याः । ते । मे । इह । श्रुत । हवम् ॥ १०.६३.२
ऋग्वेद - मण्डल » 10; सूक्त » 63; मन्त्र » 2
अष्टक » 8; अध्याय » 2; वर्ग » 3; मन्त्र » 2
अष्टक » 8; अध्याय » 2; वर्ग » 3; मन्त्र » 2
Meaning -
O Devas, brilliancies of nature and humanity, all your names, nature and functions are venerable, adorable and worthy of yajnic communion. May all of you who are born of the earth, over the sky and space and mother Infinity may hear my call and invocation here on the vedi.