ऋग्वेद - मण्डल 10/ सूक्त 73/ मन्त्र 10
अश्वा॑दिया॒येति॒ यद्वद॒न्त्योज॑सो जा॒तमु॒त म॑न्य एनम् । म॒न्योरि॑याय ह॒र्म्येषु॑ तस्थौ॒ यत॑: प्रज॒ज्ञ इन्द्रो॑ अस्य वेद ॥
स्वर सहित पद पाठअश्वा॑त् । इ॒या॒य॒ । इति॑ । यत् । वद॑न्ति । ओज॑सः । जा॒तम् । उ॒त । म॒न्ये॒ । ए॒न॒म् । म॒न्योः । इ॒या॒य॒ । ह॒र्म्येषु॑ । त॒स्थौ॒ । यतः॑ । प्र॒ऽज॒ज्ञे । इन्द्रः॑ । अ॒स्य॒ । वे॒द॒ ॥
स्वर रहित मन्त्र
अश्वादियायेति यद्वदन्त्योजसो जातमुत मन्य एनम् । मन्योरियाय हर्म्येषु तस्थौ यत: प्रजज्ञ इन्द्रो अस्य वेद ॥
स्वर रहित पद पाठअश्वात् । इयाय । इति । यत् । वदन्ति । ओजसः । जातम् । उत । मन्ये । एनम् । मन्योः । इयाय । हर्म्येषु । तस्थौ । यतः । प्रऽजज्ञे । इन्द्रः । अस्य । वेद ॥ १०.७३.१०
ऋग्वेद - मण्डल » 10; सूक्त » 73; मन्त्र » 10
अष्टक » 8; अध्याय » 3; वर्ग » 4; मन्त्र » 5
अष्टक » 8; अध्याय » 3; वर्ग » 4; मन्त्र » 5
Meaning -
While some say this power and presence comes from the system itself, and I think it is born of divine lustre, arisen from passion and subsisting in forms and subsystems, the truth is that wherefrom it arises Indra alone knows the mystery.