ऋग्वेद - मण्डल 10/ सूक्त 86/ मन्त्र 3
ऋषिः - वृषाकपिरैन्द्र इन्द्राणीन्द्रश्च
देवता - वरुणः
छन्दः - निचृत्पङ्क्ति
स्वरः - पञ्चमः
किम॒यं त्वां वृ॒षाक॑पिश्च॒कार॒ हरि॑तो मृ॒गः । यस्मा॑ इर॒स्यसीदु॒ न्व१॒॑र्यो वा॑ पुष्टि॒मद्वसु॒ विश्व॑स्मा॒दिन्द्र॒ उत्त॑रः ॥
स्वर सहित पद पाठकिम् । अ॒यम् । त्वाम् । वृ॒षाक॑पिः । च॒कार॑ । हरि॑तः । मृ॒गः । यस्मै॑ । इ॒र॒स्यसि॑ । इत् । ऊँ॒ इति॑ । नु । अ॒र्यः । वा॒ । पु॒ष्टि॒ऽमत् । वसु॑ । विश्व॑स्मात् । इन्द्रः॑ । उत्ऽत॑रः ॥
स्वर रहित मन्त्र
किमयं त्वां वृषाकपिश्चकार हरितो मृगः । यस्मा इरस्यसीदु न्व१र्यो वा पुष्टिमद्वसु विश्वस्मादिन्द्र उत्तरः ॥
स्वर रहित पद पाठकिम् । अयम् । त्वाम् । वृषाकपिः । चकार । हरितः । मृगः । यस्मै । इरस्यसि । इत् । ऊँ इति । नु । अर्यः । वा । पुष्टिऽमत् । वसु । विश्वस्मात् । इन्द्रः । उत्ऽतरः ॥ १०.८६.३
ऋग्वेद - मण्डल » 10; सूक्त » 86; मन्त्र » 3
अष्टक » 8; अध्याय » 4; वर्ग » 1; मन्त्र » 3
अष्टक » 8; अध्याय » 4; वर्ग » 1; मन्त्र » 3
Meaning -
What has this Vrshakapi done to you, this golden green natural, who needs initiation but who is the top master spirit of the created, toward whom you show so much resentment? Indra is supreme over the whole creation.