ऋग्वेद - मण्डल 3/ सूक्त 7/ मन्त्र 10
ऋषिः - गाथिनो विश्वामित्रः
देवता - अग्निः
छन्दः - त्रिष्टुप्
स्वरः - धैवतः
पृ॒क्षप्र॑यजो द्रविणः सु॒वाचः॑ सुके॒तव॑ उ॒षसो॑ रे॒वदू॑षुः। उ॒तो चि॑दग्ने महि॒ना पृ॑थि॒व्याः कृ॒तं चि॒देनः॒ सं म॒हे द॑शस्य॥
स्वर सहित पद पाठपृ॒क्षऽप्र॑यजः । द्र॒वि॒णः॒ । सु॒ऽवाचः॑ । सु॒ऽके॒तवः॑ । उ॒षसः॑ । रे॒वत् । ऊ॒षुः॒ । उ॒तो इति॑ । चि॒त् । अ॒ग्ने॒ । म॒हि॒ना । पृ॒थि॒व्याः । कृ॒तम् । चि॒त् । एनः॑ । सम् । म॒हे । द॒श॒स्य॒ ॥
स्वर रहित मन्त्र
पृक्षप्रयजो द्रविणः सुवाचः सुकेतव उषसो रेवदूषुः। उतो चिदग्ने महिना पृथिव्याः कृतं चिदेनः सं महे दशस्य॥
स्वर रहित पद पाठपृक्षऽप्रयजः। द्रविणः। सुऽवाचः। सुऽकेतवः। उषसः। रेवत्। ऊषुः। उतो इति। चित्। अग्ने। महिना। पृथिव्याः। कृतम्। चित्। एनः। सम्। महे। दशस्य॥
ऋग्वेद - मण्डल » 3; सूक्त » 7; मन्त्र » 10
अष्टक » 3; अध्याय » 1; वर्ग » 2; मन्त्र » 5
अष्टक » 3; अध्याय » 1; वर्ग » 2; मन्त्र » 5
Meaning -
Munificent yajakas, blest with wealth of energy, blissfully vocal and highly expressive, refulgent with holy light, the dawns of divinity, rise and shine bearing the wealth of nature. And you, O lord of cosmic yajna, Agni, for the sake of the great earth and her children, with the mighty blaze of majesty, eliminate from the world whatever sin or crime or evil has ever been committed.