ऋग्वेद - मण्डल 4/ सूक्त 43/ मन्त्र 1
ऋषिः - पुरुमीळहाजमीळहौ सौहोत्रौ
देवता - अश्विनौ
छन्दः - त्रिष्टुप्
स्वरः - धैवतः
क उ॑ श्रवत्कत॒मो य॒ज्ञिया॑नां व॒न्दारु॑ दे॒वः क॑त॒मो जु॑षाते। कस्ये॒मां दे॒वीम॒मृते॑षु॒ प्रेष्ठां॑ हृ॒दि श्रे॑षाम सुष्टु॒तिं सु॑ह॒व्याम् ॥१॥
स्वर सहित पद पाठकः । ऊँ॒ इति॑ । श्र॒व॒त् । क॒त॒मः । य॒ज्ञिया॑नाम् । व॒न्दारु॑ । दे॒वः । क॒त॒मः । जु॒षा॒ते॒ । कस्य॑ । इ॒माम् । दे॒वीम् । अ॒मृते॑षु । प्रेष्ठा॑म् । हृ॒दि । श्रे॒षा॒म॒ । सु॒ऽस्तु॒तिम् । सु॒ऽह॒व्याम् ॥
स्वर रहित मन्त्र
क उ श्रवत्कतमो यज्ञियानां वन्दारु देवः कतमो जुषाते। कस्येमां देवीममृतेषु प्रेष्ठां हृदि श्रेषाम सुष्टुतिं सुहव्याम् ॥१॥
स्वर रहित पद पाठकः। ऊम् इति। श्रवत्। कतमः। यज्ञियानाम्। वन्दारु। देवः। कतमः। जुषाते। कस्य। इमाम्। देवीम्। अमृतेषु। प्रेष्ठाम्। हृदि। श्रेषाम। सुऽस्तुतिम्। सुऽहव्याम् ॥१॥
ऋग्वेद - मण्डल » 4; सूक्त » 43; मन्त्र » 1
अष्टक » 3; अध्याय » 7; वर्ग » 19; मन्त्र » 1
अष्टक » 3; अध्याय » 7; वर्ग » 19; मन्त्र » 1
Meaning -
Who listens? Which of the adorables? Which brilliant divinity loves and entertains the song of prayer and adoration? To whose heart shall we dedicate this eulogy, divine, highly presentable, and dearest to the immortals.