ऋग्वेद - मण्डल 5/ सूक्त 2/ मन्त्र 1
ऋषिः - कुमार आत्रेयो वृषो वा जार उभौ वा
देवता - अग्निः
छन्दः - त्रिष्टुप्
स्वरः - धैवतः
कु॒मा॒रं मा॒ता यु॑व॒तिः समु॑ब्धं॒ गुहा॑ बिभर्ति॒ न द॑दाति पि॒त्रे। अनी॑कमस्य॒ न मि॒नज्जना॑सः पु॒रः प॑श्यन्ति॒ निहि॑तमर॒तौ ॥१॥
स्वर सहित पद पाठकु॒मा॒रम् । मा॒ता । यु॒व॒तिः । सम्ऽउ॑ब्धम् । गुहा॑ । बि॒भ॒र्ति॒ । न । द॒दा॒ति॒ । पि॒त्रे । अनी॑कम् । अ॒स्य॒ । न । मि॒नत् । जना॑सः । पु॒रः । प॒श्य॒न्ति॒ । निऽहि॑तम् । अ॒र॒तौ ॥
स्वर रहित मन्त्र
कुमारं माता युवतिः समुब्धं गुहा बिभर्ति न ददाति पित्रे। अनीकमस्य न मिनज्जनासः पुरः पश्यन्ति निहितमरतौ ॥१॥
स्वर रहित पद पाठकुमारम्। माता। युवतिः। सम्ऽउब्धम्। गुहा। बिभर्ति। न। ददाति। पित्रे। अनीकम्। अस्य। न। मिनत्। जनासः। पुरः। पश्यन्ति। निऽहितम्। अरतौ ॥१॥
ऋग्वेद - मण्डल » 5; सूक्त » 2; मन्त्र » 1
अष्टक » 3; अध्याय » 8; वर्ग » 14; मन्त्र » 1
अष्टक » 3; अध्याय » 8; वर्ग » 14; मन्त्र » 1
Meaning -
The youthful mother bears and supports the foetus concealed in the womb, she does not, cannot, give it to the father in the state of immaturity. People cannot hurt its strength and vitality hidden in secret. But when it is born, they see its beauty and vitality before their eyes.