ऋग्वेद - मण्डल 6/ सूक्त 15/ मन्त्र 3
ऋषिः - भरद्वाजो बार्हस्पत्यः
देवता - अग्निः
छन्दः - निचृदतिजगती
स्वरः - निषादः
स त्वं दक्ष॑स्यावृ॒को वृ॒धो भू॑र॒र्यः पर॒स्यान्त॑रस्य॒ तरु॑षः। रा॒यः सू॑नो सहसो॒ मर्त्ये॒ष्वा छ॒र्दिर्य॑च्छ वी॒तह॑व्याय स॒प्रथो॑ भ॒रद्वा॑जाय स॒प्रथः॑ ॥३॥
स्वर सहित पद पाठसः । त्वम् । दक॑स्य । अ॒वृ॒कः । वृ॒धः । भूः॒ । अ॒र्यः । पर॑स्य । अन्त॑रस्य । तरु॑षः । रा॒यः । सू॒नो॒ इति॑ । स॒ह॒सः॒ । मर्त्ये॑षु । आ । छ॒र्दिः । य॒च्छ॒ । वी॒तऽह॑व्याय । स॒ऽप्रथः॑ । भ॒रत्ऽवा॑जाय । स॒ऽप्रथः॑ ॥
स्वर रहित मन्त्र
स त्वं दक्षस्यावृको वृधो भूरर्यः परस्यान्तरस्य तरुषः। रायः सूनो सहसो मर्त्येष्वा छर्दिर्यच्छ वीतहव्याय सप्रथो भरद्वाजाय सप्रथः ॥३॥
स्वर रहित पद पाठसः। त्वम्। दक्षस्य। अवृकः। वृधः। भूः। अर्यः। परस्य। अन्तरस्य। तरुषः। रायः। सूनो इति। सहसः। मर्त्येषु। आ। छर्दिः। यच्छ। वीतऽहव्याय। सऽप्रथः। भरत्ऽवाजाय। सऽप्रथः ॥३॥
ऋग्वेद - मण्डल » 6; सूक्त » 15; मन्त्र » 3
अष्टक » 4; अध्याय » 5; वर्ग » 17; मन्त्र » 3
अष्टक » 4; अध्याय » 5; वर्ग » 17; मन्त्र » 3
Meaning -
Agni, child of omnipotence, leading light and giver of strength and courage, loving ruler free from jealousy and grabbing cruelty, be promoter of the efficient and the expert, be the master of external, internal and victorious power and honour, bring settlement, peace and comfort for the people, rise in expansion for the giver and receiver of yajnic creations, and honour the man of science and technology with recognition and advancement.