ऋग्वेद - मण्डल 6/ सूक्त 47/ मन्त्र 1
स्वा॒दुष्किला॒यं मधु॑माँ उ॒तायं ती॒व्रः किला॒यं रस॑वाँ उ॒तायम्। उ॒तो न्व१॒॑स्य प॑पि॒वांस॒मिन्द्रं॒ न कश्च॒न स॑हत आह॒वेषु॑ ॥१॥
स्वर सहित पद पाठस्वा॒दुः । किल॑ । अ॒यम् । मधु॑ऽमान् । उ॒त । अ॒यम् । ती॒व्रः । किल । अ॒यम् । रस॑ऽवान् । उ॒त । अ॒यम् । उ॒तो इति॑ । नु । अ॒स्य । प॒पि॒ऽवांस॑म् । इन्द्र॑म् । न । कः । च॒न । स॒ह॒ते॒ । आ॒ऽह॒वेषु॑ ॥
स्वर रहित मन्त्र
स्वादुष्किलायं मधुमाँ उतायं तीव्रः किलायं रसवाँ उतायम्। उतो न्व१स्य पपिवांसमिन्द्रं न कश्चन सहत आहवेषु ॥१॥
स्वर रहित पद पाठस्वादुः। किल। अयम्। मधुऽमान्। उत। अयम्। तीव्रः। किल। अयम्। रसऽवान्। उत। अयम्। उतो इति। नु। अस्य। पपिऽवांसम्। इन्द्रम्। न। कः। चन। सहते। आऽहवेषु ॥१॥
ऋग्वेद - मण्डल » 6; सूक्त » 47; मन्त्र » 1
अष्टक » 4; अध्याय » 7; वर्ग » 30; मन्त्र » 1
अष्टक » 4; अध्याय » 7; वर्ग » 30; मन्त्र » 1
Meaning -
Soma: of course it is delicious, honey sweet, and it is sharp and strong and intense, and also it has wonderful flavour. And when Indra, the mighty one, has happily drunk of this soma, this nectar of life, none can withstand him in battles.