ऋग्वेद - मण्डल 8/ सूक्त 27/ मन्त्र 1
ऋषिः - मनुर्वैवस्वतः
देवता - विश्वेदेवा:
छन्दः - निचृद्बृहती
स्वरः - मध्यमः
अ॒ग्निरु॒क्थे पु॒रोहि॑तो॒ ग्रावा॑णो ब॒र्हिर॑ध्व॒रे । ऋ॒चा या॑मि म॒रुतो॒ ब्रह्म॑ण॒स्पतिं॑ दे॒वाँ अवो॒ वरे॑ण्यम् ॥
स्वर सहित पद पाठअ॒ग्निः । उ॒क्थे । पु॒रःऽहि॑तः । ग्रावा॑णः । ब॒र्हिः । अ॒ध्व॒रे । ऋ॒चा । या॒मि॒ । म॒रुतः॑ । ब्रह्म॑णः । पति॑म् । दे॒वान् । अवः॑ । वरे॑ण्यम् ॥
स्वर रहित मन्त्र
अग्निरुक्थे पुरोहितो ग्रावाणो बर्हिरध्वरे । ऋचा यामि मरुतो ब्रह्मणस्पतिं देवाँ अवो वरेण्यम् ॥
स्वर रहित पद पाठअग्निः । उक्थे । पुरःऽहितः । ग्रावाणः । बर्हिः । अध्वरे । ऋचा । यामि । मरुतः । ब्रह्मणः । पतिम् । देवान् । अवः । वरेण्यम् ॥ ८.२७.१
ऋग्वेद - मण्डल » 8; सूक्त » 27; मन्त्र » 1
अष्टक » 6; अध्याय » 2; वर्ग » 31; मन्त्र » 1
अष्टक » 6; अध्याय » 2; वर्ग » 31; मन्त्र » 1
Meaning -
In the yajna of love and non-violence, Agni, prime light of life, is the first adorable, then the holy fire, the priest, the soma stone and the holy grass are cherished. Therefore with the chants of Rks I invoke the Maruts, cosmic energies, Brahmanaspati, giver of the Veda and the vedic scholar, and other venerable divinities for protection and promotion of our choice.