Loading...
ऋग्वेद मण्डल - 8 के सूक्त 51 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 8/ सूक्त 51/ मन्त्र 8
    ऋषिः - श्रुष्टिगुः काण्वः देवता - इन्द्र: छन्दः - निचृत्पङ्क्ति स्वरः - पञ्चमः

    प्र यो न॑न॒क्षे अ॒भ्योज॑सा॒ क्रिविं॑ व॒धैः शुष्णं॑ निघो॒षय॑न् । य॒देदस्त॑म्भीत्प्र॒थय॑न्न॒मूं दिव॒मादिज्ज॑निष्ट॒ पार्थि॑वः ॥

    स्वर सहित पद पाठ

    प्र । यः । न॒न॒क्षे । अ॒भि । ओज॑सा । क्रिवि॑म् । व॒धैः । शुष्ण॑म् । नि॒ऽघो॒षय॑न् । य॒दा । इत् । अस्त॑म्भीत् । प्र॒थय॑न् । अ॒मूम् । दिव॑म् । आत् । इत् । ज॒नि॒ष्ट॒ । पार्थि॑वः ॥


    स्वर रहित मन्त्र

    प्र यो ननक्षे अभ्योजसा क्रिविं वधैः शुष्णं निघोषयन् । यदेदस्तम्भीत्प्रथयन्नमूं दिवमादिज्जनिष्ट पार्थिवः ॥

    स्वर रहित पद पाठ

    प्र । यः । ननक्षे । अभि । ओजसा । क्रिविम् । वधैः । शुष्णम् । निऽघोषयन् । यदा । इत् । अस्तम्भीत् । प्रथयन् । अमूम् । दिवम् । आत् । इत् । जनिष्ट । पार्थिवः ॥ ८.५१.८

    ऋग्वेद - मण्डल » 8; सूक्त » 51; मन्त्र » 8
    अष्टक » 6; अध्याय » 4; वर्ग » 19; मन्त्र » 3

    Meaning -
    When he had expanded and pervaded the heavens and firmed the higher regions, seized the cloud with his blazing might and struck the drought to naught, then he caused the earthly forms of life to emerge.

    इस भाष्य को एडिट करें
    Top