ऋग्वेद - मण्डल 8/ सूक्त 62/ मन्त्र 1
ऋषिः - प्रगाथः काण्वः
देवता - इन्द्र:
छन्दः - निचृत्पङ्क्ति
स्वरः - पञ्चमः
प्रो अ॑स्मा॒ उप॑स्तुतिं॒ भर॑ता॒ यज्जुजो॑षति । उ॒क्थैरिन्द्र॑स्य॒ माहि॑नं॒ वयो॑ वर्धन्ति सो॒मिनो॑ भ॒द्रा इन्द्र॑स्य रा॒तय॑: ॥
स्वर सहित पद पाठप्रो इति॑ । अ॒स्मै॒ । उप॑ऽस्तुति॑म् । भर॑त । यत् । जुजो॑षति । उ॒क्थैः । इन्द्र॑स्य । माहि॑नम् । वयः॑ । व॒र्ध॒न्ति॒ । सो॒मिनः॑ । भ॒द्राः । इन्द्र॑स्य । रा॒तयः॑ ॥
स्वर रहित मन्त्र
प्रो अस्मा उपस्तुतिं भरता यज्जुजोषति । उक्थैरिन्द्रस्य माहिनं वयो वर्धन्ति सोमिनो भद्रा इन्द्रस्य रातय: ॥
स्वर रहित पद पाठप्रो इति । अस्मै । उपऽस्तुतिम् । भरत । यत् । जुजोषति । उक्थैः । इन्द्रस्य । माहिनम् । वयः । वर्धन्ति । सोमिनः । भद्राः । इन्द्रस्य । रातयः ॥ ८.६२.१
ऋग्वेद - मण्डल » 8; सूक्त » 62; मन्त्र » 1
अष्टक » 6; अध्याय » 4; वर्ग » 40; मन्त्र » 1
अष्टक » 6; अध्याय » 4; वर्ग » 40; मन्त्र » 1
Meaning -
O celebrants, sing aloud and send up your prayers to Indra who listens and loves them. The soma yajis with songs of praise exalt the great glory and magnificence of Indra. Great and good are the gifts of Indra.