Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 12/ मन्त्र 101
    ऋषिः - वरुण ऋषिः देवता - भिषजो देवताः छन्दः - निचृदनुष्टुप् स्वरः - गान्धारः
    10

    त्वमु॑त्त॒मास्यो॑षधे॒ तव॑ वृ॒क्षाऽउप॑स्तयः। उप॑स्तिरस्तु॒ सोऽस्माकं॒ योऽअ॒स्माँ२ऽ अ॑भि॒दास॑ति॥१०१

    स्वर सहित पद पाठ

    त्वम्। उ॒त्त॒मेत्यु॑त्त॒मा। अ॒सि॒। ओ॒ष॒धे॒। तव॑। वृ॒क्षाः। उप॑स्तयः। उप॑स्तिः। अ॒स्तु॒। सः। अ॒स्माक॑म्। यः। अ॒स्मान्। अ॒भि॒दास॒तीत्य॑भि॒ऽदास॑ति ॥१०१ ॥


    स्वर रहित मन्त्र

    त्वमुत्तमास्योषधे तव वृक्षाऽउपस्तयः । उपस्तिरस्तु सो स्माकँयोऽअस्माँ अभिदासति ॥


    स्वर रहित पद पाठ

    त्वम्। उत्तमेत्युत्तमा। असि। ओषधे। तव। वृक्षाः। उपस्तयः। उपस्तिः। अस्तु। सः। अस्माकम्। यः। अस्मान्। अभिदासतीत्यभिऽदासति॥१०१॥

    यजुर्वेद - अध्याय » 12; मन्त्र » 101
    Acknowledgment

    अन्वयः - हे वैद्यजन! योऽस्मान् अभिदासति स त्वमस्माकमुपस्तिरस्तु, योत्तमौषधे ओषधिरसि अस्ति तव यस्य वृक्षा उपस्तयस्तेनौषधिनाऽस्मभ्यं सुखं देहि॥१०१॥

    पदार्थः -
    (त्वम्) (उत्तमा) (असि) अस्ति, अत्र व्यत्ययः (ओषधे) ओषधी (तव) यस्याः (वृक्षाः) वटादयः (उपस्तयः) ये उप समीपे स्त्यायन्ति संघ्नन्ति ते। अत्रोपपूर्वात् स्त्यै संघात इत्यस्मादौणादिकः क्विप् संप्रसारणं च (उपस्तिः) संहतिः (अस्तु) (सः) (अस्माकम्) (यः) (अस्मान्) (अभिदासति) अभीष्टं सुखं ददाति॥१०१॥

    भावार्थः - मनुष्यैर्न कदाचिद् विरोधिनो वैद्यस्यौषधं ग्राह्यम्, न विरोधिमित्रस्य च। किन्तु यो वैद्यकशास्त्रार्थविदाप्तोऽजातशत्रुः सर्वोपकारी सर्वेषां सुहृद् वर्त्तते, तस्मादौषधविद्या संग्राह्या॥१०१॥

    इस भाष्य को एडिट करें
    Top