Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 12/ मन्त्र 49
    ऋषिः - विश्वामित्र ऋषिः देवता - अग्निर्देवता छन्दः - भुरिगार्षी पङ्क्तिः स्वरः - पञ्चमः
    10

    अग्ने॑ दि॒वोऽअर्ण॒मच्छा॑ जिगा॒स्यच्छा॑ दे॒वाँ२ऽऊ॑चिषे॒ धिष्ण्या॒ ये। या रो॑च॒ने प॒रस्ता॒त् सूर्य॑स्य॒ याश्चा॒वस्ता॑दुप॒तिष्ठ॑न्त॒ऽआपः॑॥४९॥

    स्वर सहित पद पाठ

    अग्ने॑। दि॒वः। अर्ण॑म्। अच्छ॑। जि॒गा॒सि॒। अच्छ॑। दे॒वान्। ऊ॒चि॒षे॒। धिष्ण्याः॑। ये। याः। रो॒च॒ने। प॒रस्ता॑त्। सूर्य॑स्य। याः। च॒। अ॒वस्ता॑त्। उ॒प॒तिष्ठ॑न्त॒ इत्यु॑प॒ऽतिष्ठ॑न्ते। आपः॑ ॥४९ ॥


    स्वर रहित मन्त्र

    अग्ने दिवो अर्णमच्छा जिगास्यच्छा देवाँऽऊचिषे धिष्ण्या ये । या रोचने परस्तात्सूर्यस्य याश्चावस्तादुपतिष्ठन्तऽआपः ॥


    स्वर रहित पद पाठ

    अग्ने। दिवः। अर्णम्। अच्छ। जिगासि। अच्छ। देवान्। ऊचिषे। धिष्ण्याः। ये। याः। रोचने। परस्तात्। सूर्यस्य। याः। च। अवस्तात्। उपतिष्ठन्त इत्युपऽतिष्ठन्ते। आपः॥४९॥

    यजुर्वेद - अध्याय » 12; मन्त्र » 49
    Acknowledgment

    अन्वयः - हे अग्ने! यस्त्वं दिवोऽर्णं या आपः सूर्यस्य रोचने परस्ताद् याश्चावस्तादुपतिष्ठन्ते, ता अच्छ जिगासि। ये धिष्ण्याः सन्ति, तान् देवान् प्रत्यर्णमच्छोचिषे, स त्वमस्माकमुपदेष्टा भव॥४९॥

    पदार्थः -
    (अग्ने) विद्वन् (दिवः) प्रकाशात् (अर्णम्) विज्ञानम् (अच्छ) (जिगासि) स्तौषि (अच्छ) (देवान्) दिव्यगुणान् विदुषो विद्यार्थिनो वा (ऊचिषे) वक्ति (धिष्ण्याः) ये दिधिषन्ति ब्रुवन्ति ते धिषाणस्तेषु साधवः, अत्र धिष् धातोर्बाहुलकादौणादिकः कनिन् ततो यत् (ये) (याः) (रोचने) प्रकाशे (परस्तात्) पराः (सूर्यस्य) (याः) (च) (अवस्तात्) अधस्थाः (उपतिष्ठन्ते) (आपः) प्राणा जलानि वा। [अयं मन्त्रः शत॰७.१.१.२४ व्याख्यातः]॥४९॥

    भावार्थः - ये सुविचारेण विद्युतः सूर्य्यकिरणेषूपर्य्यधःस्थानां जलानां वायूनां च बोधं यथा प्राप्नुवन्ति, तेऽन्यान् प्रति सम्यगुपदिशन्तु॥४९॥

    इस भाष्य को एडिट करें
    Top