Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 12/ मन्त्र 52
    ऋषिः - विश्वामित्र ऋषिः देवता - अग्निर्देवता छन्दः - निचृदार्ष्यनुस्टुप् स्वरः - गान्धारः
    6

    अ॒यं ते॒ योनि॑र्ऋ॒त्वियो॒ यतो॑ जा॒तोऽअरो॑चथाः। तं जा॒नन्न॑ग्न॒ऽआ रो॒हाथा॑ नो वर्धया र॒यिम्॥५२॥

    स्वर सहित पद पाठ

    अ॒यम्। ते॒। योनिः॑। ऋ॒त्वियः॑। यतः॑। जा॒तः। अरो॑चथाः। तम्। जा॒नन्। अ॒ग्ने॒। आ। रो॒ह॒। अथ॑। नः॒। व॒र्ध॒य॒। र॒यिम् ॥५२ ॥


    स्वर रहित मन्त्र

    अयन्ते योनिरृत्वियो यतो जातोऽअरोचथाः । तञ्जानन्नग्नऽआ रोहाथा नो वर्धया रयिम् ॥


    स्वर रहित पद पाठ

    अयम्। ते। योनिः। ऋत्वियः। यतः। जातः। अरोचथाः। तम्। जानन्। अग्ने। आ। रोह। अथ। नः। वर्धय। रयिम्॥५२॥

    यजुर्वेद - अध्याय » 12; मन्त्र » 52
    Acknowledgment

    अन्वयः - हे अग्ने! त्वं यस्ते तव ऋत्वियोऽयं योनिरस्ति, यतो जातस्त्वमरोचथाः। तं जानँस्त्वमारोहाथ नो रयिं वर्धय॥५२॥

    पदार्थः -
    (अयम्) (ते) तव (योनिः) दुःखवियोजकः सुखसंयोजको व्यवहारः (ऋत्वियः) ऋतुसमयोऽस्य प्राप्तः, अत्र छन्दसि घस् [अष्टा॰५.१.१०६] इति घस् प्रत्ययः (यतः) यस्मात् (जातः) प्रादुर्भूतः सन् (अरोचथाः) प्रदीप्येथाः (तम्) (जानन्) (अग्ने) अग्निरिव स्वच्छात्मन् (आ) (रोह) आरूढो भव (अथ) अनन्तरम्, अत्र निपातस्य च [अष्टा॰६.३.१३६] इति संहितायां दीर्घः (नः) अस्मभ्यम् (वर्धय) अत्र अन्येषामपि॰ [अष्टा॰६३.१३७] इति संहितायां दीर्घत्वम् (रयिम्) प्रशंस्तां श्रियम्। [अयं मन्त्रः शत॰७.१.१.२८ व्याख्यातः]॥५२॥

    भावार्थः - हे मातापित्राचार्य्याः! यूयं पुत्रान् पुत्रीश्च धर्म्येण ब्रह्मचर्य्येण सेवितेन सद्विद्या जनयित्वोपदिशत। हे सन्तानाः! यूयं सद्विद्यया सदाचारेणास्मान् सुसेवया धनेन च सततं सुखयतेति॥५२॥

    इस भाष्य को एडिट करें
    Top